पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८७ ५५०पटलः ] महादेवकृतबैजयन्तीव्याख्यासमेतम् ।

यज यजेति पूर्वमनूयाजꣳ संप्रेष्यति यजेत्युत्तरꣳ सूक्तवाकं प्रति होता निवीतं कुरुते न पत्नीः संयाजयन्ति न समिष्टयजुर्जुहोति सर्वमन्यत्क्रियते ।। १४ ।।

इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चमप्रश्ने चतुर्थः पटलः ।। ४ ।।

निगदव्याख्यातानि । सर्वपिष्टलेपफलीकरणहोमः सारस्वतहोमादि सर्वप्रायश्चि. त्तान्तं सर्व करोति । इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायो महादेवकृतायां प्रयोगवैजयन्यां पञ्चमप्रश्ने महापित्याश्चतुर्थः पटलः

5.5 अथ पञ्चमप्रश्ने पञ्चमः पटलः ।

रौद्राꣳस्त्रैयम्बकान्प्रतिपूरुषमेककपालान्निर्वपति ।

रुद्रा देवता निर्वापे त एव ऽयम्बकनामानः ।

यावन्तो यजमानस्यामात्याः सस्त्रीकास्तत एकाधिकान् ।

गतार्थम् ।

तूष्णीमुपचरिता भवन्ति ।

दविहोमत्वान्नात्रातिदेशतोऽङ्गप्राप्तिरिति तूष्णीमित्युक्तम् । निर्वाषमात्रे मनोऽ- न्यत्तूष्णी सर्वमपि।

दक्षिणार्धे गार्हपत्यस्य श्रप्यन्ते ।

पुरोडाशा इति शेषः ।

तानभिघार्यानभिघार्य वा ।

तुझ्यश्रुतित्वाद्विकल्पः ।

मूते मूतयोर्भूतेषु कोशापिधाने वोद्वास्य ।

मूर्त धान्याधानेन बन्धनार्थ तृणमयं व्याख्यातं, तेषां संख्याविकल्पः । कोशः करण्डः पेटा वा तस्यापिधानं पटलकम् । एतेषु कुत्रचिदुद्वास्य पुरोडाशान् ।

दक्षिणाग्नेरेकोल्मुकं धूपायत्पराचीनमपरेण गार्हपत्यमत्याहृत्याग्रतो हरन्ति ।

धूपायभूमायापराचीनमवाङ्मुखं गच्छतां बहिर्जस्विनां सपत्नीकसामात्ययममाना-- नामने हरन्त्युमुकम् । स्पष्टम् । , ख, ग, ठ, र. पा. 'नस्य प्रेष्यामा । १४, इ. "मधर्ममा ३ ख. ग. च. ट, ण. पेगा।