पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। "सत्यापाढविरचितं श्रौतसून- [पञ्चमप्रवे--

यावन्तो गृह्याः स्म इति गार्हपत्यमुपतिष्ठते उत्तरपूर्वमवान्तरदेशं गच्छन्ति ।

अध्वर्युरेव । द्वितीयाय सस्थ इत्यन्तो मन्त्रः ।

उत्तरपूर्वमान्तरदेशं गच्छन्ति ।

विहाराहहिरुत्तरपूर्वमीशान्य मागं गच्छनि सर्वेऽपि । ततस्तु पत्र चतुष्पथस्तत्र गच्छन्ति ।

आखुस्ते रुद्र पशुरिति व्रजन्नेयाऽऽखूत्कर एकं पुरोडाशमुपवपति ।

तं जुपस्वेत्यन्तो मन्त्रः । आखुनोत्कीर्णमृदि निदधाति गच्छक । तथा चतुष्पर्य गच्छेद्यथा मध्य भाखूल्करो भवति ।

चतुष्पथ एकोल्मुकमुपसमाधाय संपरिस्तीर्य ।

वर्मसंयोगश्चतुष्पधः । स्पष्टम् ।

मध्यमेन पलाशपर्णेनान्तिमेन वा सर्वेभ्यः पुरोडाशेभ्यः समवदायाभिघार्यैष ते रुद्र भाग इति जुहोति ।

सर्वेभ्यः पुरोडाशेभ्यः सकृत्सकृत्समदाय पलाशपत्रेण जुहोत्युल्मुके । तं जुफ. स्थेत्यन्तः।

भेषजं गव इति द्वाभ्यामुपतिष्ठन्ते ।।

सर्वे तमग्निमुपतिष्ठन्ते व्यवसाययादित्यन्तेन ।

प्रतिपूरुषं पुरोडाशानादाय ।

प्रतिमनुष्यम् ।

त्र्यम्बकं यजामह इति त्रिः प्रदक्षिणं चतुष्पथं परियन्ति ।

प्रत्येकं प्रतिप्रदक्षिणं मन्त्रावृत्तिः । सामान्यमुक्त्वा विशेषमाइः-

तानूर्ध्वानुदस्य भगवः स्थ भगस्य वो लिप्सीयेति प्रतिगृह्य परीत्य यजमानाय समावपन्ति ।

प्रथमं तूष्णीमादाय पुरोडाशं तत ऊर्वानाकाश उदस्य पश्चाद्भगवः स्थेति मन्प्रेण ममौ पतन्तं पुरोडाशं प्रतिगृह्य. त्र्यम्बकमित्यनेन. परीत्य प्रतिणीकृत्य चतुष्पयम् । ततो यजमानस्याञ्जली निक्षिप्य पुनरादायोमुदस्य प्रतिगृह्य . परीत्य यनमानाञ्जली निधाय । तपैव तृतीयपर्यायेऽपि ।

  • सूत्रपुस्तकेषु' उपतिष्ठन्ते । इति वर्तते ।

स. ग. ह. द. "न्ति । भा. २ घ.. ज. स. म. द. हाशानामु' । ३ प.क. नान्तने । ४ ख. म.च.... "भ्यः । ५. अप्र. . द. पर्येति । ६ ग.क, च. ज.स. मे.टणः स परीस्य य ।