पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ४८२ सत्यापाठविरचितं श्रौतसूत्र-- [१पञ्चमप्रभे-

संमृष्टे प्रवरं प्रणीते ॥ १२ ॥ सीद होसरित्येतावान्यवरः ।

ब्रह्मणा प्रसूत आश्राव्याऽऽह सोद होतरिति तथैव भारद्वाजापस्तम्बाकस्तदिद वक्तुमेतावानवेत्युक्तम् । स्पष्टमन्यत् । मुच्यमाधार्य-

अपबर्हिषः प्रयाजान्यजति नोपभृतꣳ समानयते ।

गतार्थम् ।

जीवातुमन्तावाज्यभागौ ।

गुणविशिष्टाकाम्यभागौ।

ताभ्यां प्रचर्य ।

गतम् ।

विस्रस्य यवोपवीतानि प्राचीनावीतानि कुर्वते ।

सयजमाना विनो यज्ञोपवीतमन्यान्विनस्व शिथिलान्कृत्वा प्राचीनावीतानि सर्वेऽपि कुर्वते ।

आज्यानि हवीꣳषि च विपरिहरन्ति ।

व्युत्क्रमेण स्थापयन्ति ।

विपरिक्रामन्त्यृत्विजः ।

'व्युत्क्रमेण तिष्ठन्ति ।

दक्षिणतो जुह्वामु(उ)पभृतꣳ सादयति ।

जुहूर्यधास्थानगत(ता) । तस्या दक्षिणभाग उपभृतम् ।

दक्षिणत उपभृतं ध्रुवाम् ।

तदुत्तरतः सुवेण सहितां स्थालीम् । गतम् ।

दक्षिणतः पुरोडाशं धानाः सादयति दक्षिणं धानाभ्यो मन्थम् ।

गतम् ।

होताऽध्वर्युराग्नीध्रश्च दक्षिणा विपरिक्रामन्ति ।

उत्तरखतौ स्थिता दक्षिणक्तिमागत्य तिष्ठन्ति ।

उत्तरतो ब्रह्मा यजमानश्च ।

दक्षिणस्रक्तौ स्थिसावुत्तरवक्तौ तिष्ठतः । आहवनीयाभिमुखाः सर्वेऽपि ।

समानत्र जुहूः षट्कपालश्च ।

एतयोन व्यत्ययोऽपि तु समानत्र पूर्वस्थान एव तिष्ठतः । . घ.इ.ज.म.म. जीववन्ता। १ ख. ग. ठ. . . 'स्थाने । ग। ३६ ज. स. म. क्षिणामुपश्चति धु। . इ. 'क्षिणा उ' ।