पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

० पटखः '४७९ ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

उत्तरतो वा यज्ञोपवीती।

उत्तरतः शकटमारुह्य यज्ञोपवीती निर्वपति ।

सोमाय पितृमते पुरोडाशꣳ षट्कपालं निर्वपत्याज्यं वा ।

आज्यं तु यामकाल एव नविदानीम् । आज्येन यनतीत्यर्थः ।

पितृभ्यो बर्हिषद्भ्यो धानाः पितृभ्योऽग्निष्वात्तेभ्यो मन्थं यमाय मन्थमित्येकेषाम् ।

मन्यस्व विकल्पेन देवताद्वयम् ।

प्रोक्षण्युद्रेकेण यवान्संयुत्यावहन्ति ।

गतम् ।

त्रिष्फलीकृतेषु विभागमन्त्रेण षट्कपालमपच्छिद्य पिनष्टि ।

तमेव पिनष्टि । उपधानकाले-

दक्षिणार्धे गार्हपत्यस्य षट्कपालान्युपधाय प्रथमेन कपालमन्त्रेण दक्षिणाग्नौ भर्जनार्थं कपालमुपदधाति ।

बवानां भर्जनयोग्यं कपालं, प्रथमग्रहण*मूहप्रतिषेधार्थम् ।

षट्कपालमधिश्रित्याधिश्रयणमन्त्रेणोप्य धाना भर्जयति ।

पानार्थान्यवान् ।

अनुपदह्यमानाः परिशेरते ।। ११ ।।

धानाः कपालस्था एव यथा न दग्या भवन्ति तथा करोतीत्यर्थः ।

अखाता वेदिर्भवत्युत्तरं परिग्राहं परिगृह्य ।

गतम् ।

संप्रैषेण प्रतिपद्यते यदन्यत्पत्नीसंनहनात्तत्संप्रेष्यति ।

गतम् ।

न पत्नीꣳ संनह्यति नान्वास्ते गृहेष्वेवाऽऽसीनाऽऽज्यमवेक्षते ।

स्पष्टम् ।

यत्प्रागाज्यग्रणात्तत्कृत्वा प्रतिहृत्य गार्हपत्य आज्यानि गृह्णाति ।

आज्यानि गार्हपत्यं प्रत्यानीय गृह्णाति । पुनरानीय ग्रहणम् ।

  • गा. च. ट. ठ. पुस्तकटिप्पण्या णमन्यप्र' इति पाठा ।

१६. इ."ण धाना ।इ. 'म धानाधैं द'। २ च. द. . मौ पाना । ३ ख. ग. ह. . थ, 'ब्रण था। 1