४७८ सत्यापादविरचितं श्रौतसूत्रं- [१ पञ्चमनने- स्वादन प्रैषस्य । तमसति पूर्वपरिग्राहः । सर्वासु दिक्षु कटादिना परिश्त्रयणं वेरे- काऽऽवरणम् । उत्तरी स्त्रक्ति द्वारं कृत्वा ।
दक्षिणाग्नेरङ्गारानाहृत्य मध्ये वेदेर्न्युप्योपसमादधाति ।
मध्यतोऽग्निराधीयत इति श्रुतेः।
एषोऽत्राऽऽहवनीयः ।
गतम् ।
आहवनीयं गार्हपत्यं दक्षिणाग्निं चान्वाधाय ।
अमुमेवाऽऽहवनीयं प्राकृते प्रणीतेऽपि नान्वाधानमिति वक्तुमुक्तः क्रमः । नो चेली- नन्वाधायेति यात्ततः सर्वेषामन्वाधानं प्राप्नुयात्तदनङ्गे प्राकृत आहवनीये मा भूदिति प्रयाणामेव ग्रहणम् । देवान्पितॄन्परिगृह्णामीति माहापितृयज्ञं हविः ।
इध्माबर्हिराहरति द्राघीयः माकृतात्समूलं बर्हिर्दात्युपमूललूनं वा ।
इध्मावहिः प्राकृताद्दीर्घम् । वर्षीयानिध्म इध्माद्भवतीति श्रुतेः । बहिंस्तु सह मू- रुस्पाटितं मूलसमीपे छिन्नं वा पूर्वप्र न च्छेदन तन्मन्त्रश्च ।
द्वौ परिधी सर्वान्वोपसंनह्यति ।
इध्मे द्वौ त्रीवा संनयति । यदा द्वा तदा विंशतिधेत्यूहः । न चेन्न । समानामु सामिधेनीषु सत्व(तीव्व)सौ यथाप्रकृतीत्युक्तस्यात् ।
पात्रसꣳसादनकाले यथार्थं पात्राणि प्रयुनक्ति ।
गतम् ।
सोमाय पितृमते षट्कपालानि पितृभ्यो बर्हिषद्यो धानार्थं कपालम् ।
स्थलमित्यर्थः।
पितृभ्योऽग्निष्वात्तेभ्यो मन्थार्थं वारणं पात्रꣳ शरावं वा ।
वरणवृक्षस्य पात्र मृन्मय शरावम् ।
निर्वपणकालेऽध्वर्युर्दक्षिणतः शकटमारुह्य प्राचीनावीती यवान्निर्वपति ।
अध्वर्युरेव प्राचीनावीती, अमे सर्वेषां प्राचीनावीतित्वविधानात् । 13.द.*णीय तेमापि । ३ ध. इ.ज.म. म. द. "यः प्रच। ३च, ट, सदायो । स. उ..'म् । स्थल"।