पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। सत्याषाढविरचितं श्रौतसूर्व-: [४ चतुर्थप्रश्ने- व्यवधान तत्र विस्टक वचनाद्यथा दर्श एवमुत्तरेषामपीति संतोष्टव्यम् । तथा च तन्त्रेण दर्शपूर्णमासयोरेवं प्रसङ्गेनेतरेषां यावज्जीवं ह्यन्वारम्भणी यापूर्व न समाप्यते तत्संस्कृते स्वामिनि पश्वादिविकृतीनामपि फलापूर्वमुत्पद्यतां वचनाच चातुर्मास्यफलापूर्वणापूर्वान्त- रापेक्षायामन्यारम्भणीयान्तरेऽपि न काचिदनुपपत्तिर्वचनं किं न कुर्यात् । युक्त्यन्तराणि दर्शपूर्णमासान्वारमणीयानिरूपण एव दर्शितानि । किंच प्रथमप्रयोगेऽपि न प्रयोगान्त:- पातिन्यन्वारम्भणीया । कथम् । भन्वारम्भणीया वैमृधश्च विकृती तत्र दर्शपूर्णमासी सर्वाकोपसहती पवाद्विकृतिभ्योऽतिदेशेना प्रयच्छतो नाप्समाप्तौ । यद्यन्वारम्भणी- यामृधौ गृहीतस्तदा प्रयोगः साङ्गः स्यात्तथाऽन्वारम्मणायामृधावुपकाराकाझी दर्शपूर्णमासातिदिष्टाः साङ्गौ सन्ता तदङ्गता प्राप्तोऽन सानोपकारस्य च दर्शपूर्ण- मासयोरद्याप्यसिद्धरुपकारद्वारा विकृतावङ्गग्रहणमतमञ्जसम् । अन्वारम्मणीयाशब्दोऽत्र व्युत्पन्नोऽन्वारम्यते पशुबन्धार्थोऽग्निरनयेति । इटि निर्वपति करोतीत्यर्थः कथं तत्राऽऽह-

आग्नावैष्णवमेकादशकपालम् । ।

निर्वपतीत्यनुकृष्यते । आग्नावैष्णवमन्वारम्भणीदेवतामेकादशकपालपुरोडाशद्रव्या- मिष्टिं कुर्यावित्यर्थः ।

सिद्धꣳ संतिष्ठते ।

दर्शपूर्णमासाम्यां सिद्धं यथा भवति तथाऽग्नीषोमीयविकारत्वेनेत्यर्थः । संतिष्ठते समाप्नोति । न दक्षिणा प्रधानदक्षिणयैवत्विना परिक्रयसिद्धेविशेषविधानामावाच.। यज्ञशं चेत्यपि नेति ज्ञयम् ।

अपि वा चतुर्ग्रहीतमाज्यमाग्नावैष्णव्यर्चाऽऽहवनीये जुहोति ।

इष्टिस्याने तूष्णी संस्कृतेनाऽऽज्येन चतुगृहीतेन जुहोति । आहवनीय इति दविहीं- मत्वेन प्राप्तेऽपि वचनं प्रधानार्थमुद्धृत एवं यथा स्यानत्वस्य त्यागेनान्यस्योद्धरणम् । प्रधानार्याग्निसंस्कारार्थे होम इष्ट्या समानकार्यत्वात्तस्याः संस्कार्यत्वमुक्तं तप्ते प्रातदोह इतिषत् । इष्टिहोमयोरपि संस्कारकत्वं कर्मस्वं च दीक्षणीयेष्टिवत् ।

शेषमाज्यस्य करोति धारयत्याहवनीयम् ।

इष्ठिहोमयोरन्यतरस्याऽऽज्यशेषं करोति यूपाहुत्यर्थम् । इयां होमे चाऽऽहवनी- यस्य प्रधानार्थमुवृत्तस्यैवागता शेष करोतीति वचनाच्छेपनाशे पुनमिनोत्पार्थ न किंतु प्रतिनिधिना कार्य नतु होमलोपे सति शेष इति ।