पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ १५०पठलः] महादेवकृतवैजयन्तीव्यास्यासमेतम् ।

उरु विष्णो विक्रमस्वेति स्रुवेणाऽऽहवनीये यूपाहुतिं जुहोति ।।

अत्राऽऽहवनीयग्रहणं यूपसमीपेऽरणीमधिते मा भूदिति कात्यायनीये मथितेऽपि तथाऽग्नोषोमीये विधानात् । दर्विहोमत्वेन जुहूपाप्तिनिवारणार्थ खुवेण जुहोतीतिश्श्रुतिप्राप्त- मुक्तम् । युपाहूतिसंज्ञकामाहुतिम् । सोमे दीक्षायपच्छेदेऽपूर्वेणाऽऽज्येन होमः । अन्वा- रम्मणीयाहोमयोरभावाच्छेषाभावात् ।

आज्यशेषं स्रुवं चाऽऽदत्ते तक्ष्णे परशुं प्रयच्छति तद्गच्छन्ति यत्र यूपं छेत्स्यन्तो भवन्ति ।

तदरण्यं गच्छन्ति ब्रह्मयजमानाध्वर्यवः । यत्र यूप्या वृक्षाः कृप्तास्तान्परि- कर्मिणस्तक्षा(स)वच्छेत्स्यन्तो भवन्ति । पचमन्यत् । परशु प्रयच्छतीति नाऽऽयो बहिरर्षे स्वीकृतो दर्शपूर्णमासयोः।

पालाशः खादिरो बैल्वो रौहीतकश्च यूप्या वृक्षाः ।

यूप्या यूपाहीं यूप्याः।

पालाशं ब्रह्मवर्चसकामस्यान्नाद्यकामस्य वा खादिरꣳ स्वर्गकामस्य बैल्वं ब्रह्मवर्चसकामस्य रोहीतकं प्रजाकामस्य ।

यूपं कुर्यादिति शेषः । एते सत्यां कामनायां तथा संकल्प्य कुर्यादन्यया नित्या एवोभयार्थाश्चैते । रोहितको वटसदृशः किंचित्सूक्ष्मपर्णः ।

त्र्यवरार्ध्या॑न्यूप्यान्वृक्षानतिक्रम्य।

यूपयोग्यान्वृक्षानतिक्रम्य । व्यवरायान , त्रयोऽवरोऽर्यो मागो)येषां ते वृक्षा- स्तथा ततोऽप्यधिकानप्यतिकम्य त्यक्त्वा ।

य ऋजुरूर्ध्व ऊर्ध्वशकल ऊर्ध्वशाखा समे भूम्यै स्वाद्योने रूढः ।

तं वृश्चेदिति वक्ष्यमाणेन संबन्धः । अवकोऽतिर्यगवृद्धो न वेष्टितशकल ऊ/- प्रशाख इति कमादर्थः । समे देशे भूम्यै भूमेः सकाशानतु पाषाणादौ रूढः । स्वाद्योनेः स्वीयोपादानान्नतु शाखायां रूढः । अत आपस्तम्बोपशाखजमिति प्रथम- काण्ड एवं रूद इति ।

यं कामयेताप्रतिष्ठितः स्यादित्यारोहं तस्मै वृश्चेद्यं कामयेतापशुः स्यादित्यपर्णं तस्मै शुष्काग्रं कामयेत पशुमान्स्यादिति बहुपर्णं तस्मै बहुशाखमशुष्काग्रम् ।

यं कामयतेति निन्दार्थवादस्तृतीयः काम्यः पक्षः । आरोहो वृक्षमारुदः शाखान इति यावत् । स्पष्टमन्यत् । १ ख. ग. ह. ण, वृषो न ।