पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ४२० सत्याषाढविरचितं श्रौतसूत्रं- [५ पञ्चमप्र-

उत्तरे विहारेऽध्वर्युः कर्माणि करोति दक्षिणे प्रतिप्रस्थाता ।

नियमस्य पूर्वमनुक्तत्वादत्र नियम्यते । स्पष्टम् ।

दक्षिणस्या वेदेरुत्तरस्याः श्रोणेरुत्तरस्या वेदेर्दक्षिणमꣳसꣳ स्फ्येनैकस्फ्यामनुसंभिनत्ति ।

दक्षिणविहारवेदेरुत्तरश्रोणिमारम्योत्तरवेदेर्दक्षिणांसपर्यन्तं स्फ्येन कृतामेकरफ्यामे- करेखाम् । अनुतृतीयार्थे । रेखया वेदिद्वयविश्लेषमध्वर्यरेत करोति । अत्र वेदिकरण कृष्णी मानेन संनामान्तमेवोक्तम् । न संमार्जनाद्यपि, समान उत्कर इत्यनन्तरमेवा. भिधास्यमानत्वात् । अतः सनामान्ते कृते स्फ्येनानुसंमिद्य पश्चाद्वदौ कृत्वा वेदी 7 कुरुत इत्यर्थः। तदेव दर्शयति--

समान उत्करो ब्रह्मा होताऽऽग्नीध्रश्च ।

चातुर्मास्यानां यज्ञकतोः पञ्चस्विज इति वचनान्नोभयत्र ब्रह्मादयोऽन्येऽन्ये पञ्चम- प्रतिप्रस्थातैव । उत्करस्थावकाशाभावादुत्तरत एवैकः । द्विपदे परिमिते घेति मानान्त- रेगापि यानि साधारणानीत्युक्तमेवाध्वर्युकृत एवोभयोः ।

अग्रेणोत्तरं विहारं प्रतिप्रस्थातोत्कराय संचरति (यत्प्रागुत्तरस्मात्परिग्राहात्तत्कृत्वा) ।

स्पष्टम् ।

उत्तरवेद्याः कल्पेनोत्तरस्यामुत्तरवेदिं करोति ।

उत्तरवेद्याः करुपेन विधिना निरूद उक्तनोत्तरविहारवेद्यामेव न दक्षिणविहारवेद्या करोतीत्यर्थः । तत्रार्य प्रयोगः-यजमाने दक्षिणविहारं दक्षिणेन स्थिते सति उमौ स्वीयां स्वीयां वादं कुरुतः । वेदेन संमृज्यमानयोर्यजमानः सकृदेव वेदेन वेदि बृहती- मित्यादि करोति संसृष्टद्रव्यस्यैकत्वानोहः । प्रदेशभेदे सत्यपि याजमाने वेदिमित्येता- व निर्देशात् । संसर्गिषु चार्थस्यास्थिरपरिमाणत्वादिति मीमांसकाः। तस्माज्वात्यभिप्रा- येणेकत्वोपपत्तौ सत्यां नाऽऽगमपाठवाध ऊहेन कार्यः । प्रायौगिकाः कुर्वन्ति च । एक. मन्यत्रापीमा नराः प्रोक्षणी रासादय गां दोहावित्रे रज्जुमित्येतस्योचारणमात्रेण विभ. बान्नोभमोः । आग्नीधः स्तम्बयजुरुभयमभिगृह्णाति । ऋतमसीति पूर्वपरिग्राही । यदुद्धन्तो बृहस्पत इत्यादि याजमानमनहेन । एवं कृते सत्युत्तरवेद्यामुत्तरवेदिः शम्या- दानादिनो तरवेदिधात्वालविमाननिवपनादिसंछादनात्पूर्व कृत्वा ।

  • धनुचिहान्तर्गतपाठः केवलसूत्रपुस्तकस्थः ।

घ... ज. स. म. द. "रो होता ब्रह्माऽऽमी ।