पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- सत्याषाढविरचितं श्रौतसूत्र- [१ पञ्चमप्रश्ने C प्र.देवं देव्या इत्यादावित्यपि ज्ञेयम् । नचाग्ने वाजनिदित्यत्रापि प्राप्तिरिति उभयत्र सकृत्क मशक्यत्वात् । प्रदेशभेदान्मन्त्रावृत्तिश्च ।

उभौ ब्रह्माणमामन्त्रयेते द्विवद्ब्रह्माऽनुजानाति ।

उभावध्वर्युप्रतिप्रस्थातारौ ब्रह्मन्प्रोक्षिष्यामीत्येवंप्रकारेण । अत्रायमाशयः-यद्यपि ब्रह्माऽध्वर्युगाउँऽमन्त्रित उभावपि प्रसवेनानुनानाति तथाऽपि अध्वर्युः कथं भविष्य- क्रियाकर्तारं प्रत्यङ्गाश्रावणमेकमेव प्रेर्यत्वेनोपस्थापयेत पुरुषैकवचनेन । तत्र प्रोक्षेत्येव प्रसवः स्यादुभयोर्न स्यात् । अथ प्रोतिष्याव इत्येवमामन्त्रयेते तथा च स चाहं चेत्यावा प्रोतिष्याव इत्येव स्यात्तत्रास्मधुपपदे समानाधिकरणे स्थानिन्यप्युत्तमा पुरुषविधानम् । तत्र द्विवचनेन सर्वादीनां यत्परं तच्छिष्यत इति परांचा(राक्ष)त्य- क्त्वेन द्वयोरभिधानेऽपि परस्मिन्प्रत्यक्त्वमारोप्योत्तमपुरुषद्विवचनप्रयोगं कुर्यात् । यच्चाऽऽहुरन्थोऽपि प्रत्यक्त्वेन वक्तुं न शक्यते तस्मान्मुख्पेनैव प्रत्यक्त्वेन सं स्वमा- त्मानमभिदधात्येकवचनेन । ततश्च नोहोऽपि । वैदिकेनैव पदेनाऽऽमश्रणमपि सिध्य. तीति द्वावपि ब्रह्माणमामन्त्रयेते। द्विवमाऽनु नानाति । प्रणयतं यज्ञ देवता वर्धयत. मेता. धत्तमित्यादिसनामेनैव युगपत्क्रिपयोरुभावप्यनुजानाति । समानन्यायानामुपलक्षण- मेतत् । निर्वस्यामीति निर्वपतम् । अगतम् ।

यत्राग्नी प्रणेष्यन्तौ भवतस्तस्मिन्देशे समे प्राची वेदी कुरुतो द्व्यङ्गुलेन त्र्यङ्गुलेन चतुरङ्गुलेन पृथमात्रेण वा श्रोण्यꣳसेष्वसंभिन्ने भवतः ।

परिभाष्येवानी वैश्वदेवाद्विशेषमाह गार्हपत्यापूर्वव देवाग्निप्रणयने प्राप्तेऽपवादः प्रणयनकाले यत्र देशेऽष्टादिप्रक्रमेष मध्ये येनं प्रमाणेनानी प्रणेप्याव इत्येवंकृतसं- कल्पौ स्यातां तेन मानेन तस्मिन्देशे तं देशमभिव्याप्य वेदी कुरुन इति संबन्धः । नह्येकस्मिन्देशे वेदिद्वयं कर्तुं शक्यम् । तथा प्रणयनं प्राचीनमेवानिदेशेन प्राप्तं तन्न मुख्य संभवति द्वयोराहवनीययोरेकत्र “तस्मान्मुख्याद्गार्ह गत्यात्प्राचीन एकस्मिन्नेव देशे विभ.गी कृत्वा यथासंभवं वेदी कुरुतः । न चैक एव मुख्योऽन्यस्त्वमुख्य इति । मुख्य- गौणप्रदेशयोरेकत्वेन ग्रहीतुमशक्यत्वात् । वैश्वदेवे हि प्रकृतावेदिरायतनं चात्रोत्तरवि- हार उत्तरवेदिक्षिणे चाऽऽयतनं तदुभयं वेद्योर्मध्य एव प्राप्तमतस्तयोरकरणे तन्न संभ. वीति वेदिकरणमादौ प्राप्तम् । तत्र प्रकृतिदिति वक्तव्ये तस्मिन्निति तद्देशसमीपे कर्तव्ये तत्र दक्षिणोत्तरविहारद्वयव्यवहारसिद्ध्यर्थम् । आहवनीययोरायतनं तु प्रकृतौ यद्यपि पुरस्ताद्वेदेष्टं तथाऽप्यत्र पाशुकप्रणयनं प्रणीतानेरु तरवेद्यामेव प्रतिष्ठापनं प्राप्तं तत्रोतः . १ ख.च.ट. ण. 'त्तरे वि।