पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२द्वि०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

ऋतमेव परमेष्ट्यृतं नात्येति किंचनर्ते समुद्र आहित ऋते भूमिरियꣳ श्रिताऽग्निस्तिग्मेन शोचिषा तप आक्रान्तमुष्णिहा शिरस्तपस्याहितं वैश्वानरस्य तेजसर्तेनास्य निवर्तये सत्येन परिवर्तये तपसाऽ- स्यानुवर्तये शिवेनास्योपवर्तये शग्मेनास्याभिवर्तय इति त्रेण्या शलल्येक्षुशलाकया वा केशान्विनायन्।

त्रीणि श्वेतानि यस्यां सा तया शलली. मृगविशेषो येन बाणैः स्वशरीराच्छूलाकारैः पिच्छैविमुक्तैः प्राणिनो विध्यन्ते तच्छूलाकारोऽवयवोऽपि शलली तादृश्येक्षुपत्रान्तः. शलाकया वा शिरोगतान्केशाविनायन्विनीतान्नम्रान्कुर्वन् ।

लौहेन क्षुरेणौदुम्बरेण केशान्निवर्तयति ।

पूर्वोक्तमन्त्रेण निवर्तनलिङ्गेन निवर्तयति तूष्णीं विनायन्निवर्तनं छेदनं कतिपयाना मेवाग्रे सर्वमिति विकल्पदर्शनात् । लोहं कालाय तस्य विकारेण सुरेण ताम्रयुक्तेन लोहितायसेन निवर्तयत इति श्रुतेः । लोहितं ताम्र तेन युक्तमायसमिति श्रुत्यर्थः। तहतमिति याजमानम् ।

वपति श्मश्रूणि सर्वं वा वापयते ।। ३ ।।

इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चमप्रश्ने प्रथमः पटलः ।। १ ।।

वपति वापयतीतिश्रुतिद्वयगतोऽनूदितो न भिन्नार्थो नापि परस्मैपदात्मनेपदणि म्योगैरन्योऽर्थोऽभिधीयते । शक्तोऽध्वर्युरेवाशक्तौ नापितो वपति । इति हिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवैजयन्यां पञ्चमे चातुर्मास्यप्रश्ने प्रथमः पटलः ॥ १॥ इति वैश्वदेवपर्व।

5.2 अथ पञ्चमप्रश्ने द्वितीयः पटलः ।

ततश्चतुर्षु मासेष्वाषाढ्यां श्रावण्यां वा वरुणप्रघासैर्यजते ।

आरम्भानुसारेण व्यवस्थया विकल्पः । चतुर्वेव मासेषु व्यतीतेषु वरुण उत्तरे विहार आमिक्षाया देवता दक्षिणे मरुतस्त एव प्रकृष्टो घासो येषामिति करम्भभाक्त्वेन प्रघासशब्देनोक्ताः । प्रघास्यान्हवामह इति मन्त्रलिङ्गाच्च । ताभ्यां देवताभ्यामुभयविः हारगतकर्मसमुदायो लक्षितस्तदेव नामधेयं ज्ञेयम् ।