सत्याषाढविरचितं श्रौतसूत्र- [५ पञ्चमप्रश्ने-
वषट्कृते विषिच्यमानया जुहोति ।
विषिच्यमानया नुचोपलक्षणं चमतस्यापि । चमसेन स्नुचा वा स्रावय होतीति कैखानसः । वाजिभ्य इदम् । वाजिनामहं देवयज्ययेन्द्रियावी भूयासं जेमानमिति वा वधिविकारत्वात् । अनुवषट्कृते तु स्विष्टकृयाजमानं . न. भवत्विति त्रयाणां ह वै हविषां स्विष्टकृते न समवद्यन्ति सोमस्य धर्मस्य वानिनस्येत्यापस्तम्बोक्तश्रुतेः ।
वाजिनस्याग्ने वीहीत्यनुयजति ।
पूर्ववदेव याजमानम् । अग्नय इदम् । वाजिनामहं देव ०।
वाजिनोद्रेकेण दिशः प्रतियजति यथा वसाहोमोद्रेकेण ।
नायमतिदेशः समानश्रुतित्वेन दर्शितमिति गुरुनिर्देशेनोक्तम् ।
समुपहूय सर्वे वाजिनं भक्षयन्त्यन्योन्यस्मिन्नुपहवमिच्छन्त उपह्वयस्वेत्यामन्त्रण उपहूत इति प्रतिवचनः ।
आमन्त्रणप्रतिवचनाम्यामन्योन्यस्मिन्नुपहवामिच्छन्तः कुर्वन्तो वाजिनमुपहूयानु. ज्ञाप्य वाजिनं भक्षयन्तीत्यर्थः । शेषमिति भरद्वाजापस्तम्बौ । तन्नेष्टम् । वाजिनमिति निर्देशादुत्करस्थमेव । मन्त्र इति शेषः । कर्मनामधेयेनेत्यापस्तम्बः । तेन होतरुपहय- स्वेत्येवमन्येषामामन्त्रणं ब्रह्मनध्वर्योऽग्नीधनमानेत्यादि स्वव्यतिरेकेण ज्ञेयम् । क्रमोs. प्ययमेव भारद्वाजेनोक्तः । प्रतिवचनमुपहूत इत्येतावतैव । उपहूतोऽनुज्ञात इत्यर्थः ।
वाजिनां भक्षो अवतु वाजो अस्मान्रेतः सिक्तममृतं बलाय । स न इन्द्र इन्द्रियं द्रविणं दधातु मा रिषाम बाजिनं भक्षयन्तस्तस्य ते वाजिन्वाजिभिर्भक्षं कृतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति भक्षयन्ति ।
प्रत्येक मन्त्रः।
यजमानः प्रथम उत्तमो वा ।
भक्षयतीति शेषः । प्रथम इत्यत्र तमारम्योपहवोऽन्येषाम् ।
श्वोभूते पौर्णमासेनेष्ट्वोदवसायानुदवसाय वा ।
प्रतिपदि पौर्णमासेनेष्वा ततो गृहेभ्योऽन्यत्र तेष्वेव वा वक्ष्यमाणं कर्तव्यम् ।
प्रसूता देवेन सवित्रा दैव्या आप उन्दन्तु दीर्घायुत्वाय वर्चस इति शिरोऽभ्युनत्ति ।
मन्त्रलिङ्गादद्भिरुन्दन्ति क्लेदयन्तीत्यर्थोऽवगम्यते । तत उदिधातोः भम्विकरण- स्थस्यैतद्रूपमभिपूर्वस्याभ्युनत्तीति । ज. स. भ. ढ, 'मास्येवो ।