पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१प्र०पठलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४५१

सꣳहतामन्यस्मिन्पात्र उद्धृत्य वाजिनेनोपसिच्य प्रज्ञातां निधायोत्करे वाजिनशेषं निदधाति।। १।।

मारुतान्तानि कपालान्युपधाय प्रातदोहस्याऽऽवृता वत्सापाकरणादिविधिना प्रात- हिं दोहयति तस्मिंस्तप्ते प्रातःहे दुग्धे सायंदोहं दधिकृतमानयति । तेन कर्मणाऽऽ. मिक्षां करोति । संहतां घनीभूतामन्यस्मिन्पात्र उद्धृत्य या संहता. साऽऽमिक्षा यवं सद्वाजिनमित्युक्तं भवति । तथैवाऽऽपस्तम्बवैखानसभारद्वाजादिभिरुक्तम् । अन्यस्मि- पात्रे तां कुम्भीत उद्धृत्यान्यस्मिन्वाजिनमित्यर्थादन्यस्मिन्पात्रे वाजिनमिति वैखानसः । द्वयोरिति भारद्वाजापस्तम्बौ । वानिनैकदेशेनाऽऽमिक्षामुपसिच्य प्रज्ञातां निधाय वानि- नैकदेशमप्युत्करे निदधाति । अत्रैवोद्धरणनिषेचनं भारद्वाजेनोक्तम् । तथा कृत्वैकक- पालमुपदधाति । अथवोत्करे वाजिनशेष निदधातीति वचनात् । उद्वासनकाल एवेदमा- मिक्षां कृत्वैककपालमुपधाय तत उद्वासनकालेऽन्यस्मिन्पात्र इत्यादि । तथैवाऽऽपस्त - म्बवैखानसाम्यामभिधानात् । श्रुतिपाठमनुसृत्योक्तमङ्गनातं क्रमस्तु सामर्थन ज्ञेय इति न दोषः। दृश्यते चान्यत्रापि चषालस्य करणकाल एव यूपाने प्रतिमोचन. मप्युक्तम् ।

संयुतानां पिष्टानां विभागमन्त्रेण पौष्ण मपच्छिद्य चरुकल्पेन श्रपयति ।

कृतव्याख्यानम् । मदन्तीनां कृतकार्यत्वात्पाकार्थमन्यदेवोदकं ग्राह्यम् ।

उत्तरं परिग्राहं परिगृह्य संप्रैषेण प्रतिपद्यत आज्येन दध्ना चोदेहीति संप्रैषस्यान्तꣳ संनमति ।

पशौ कृतव्याख्यानम् । अत्रोत्करे वेदिधर्मा इत्युक्तम् ।

फाल्गुन्यां यथा पशावेवं पृषदाज्यं गृह्णाति ।

पशुवदिति वक्तव्ये गुरुनिर्देशेनोक्तं यथा पशौ श्रुत्या विहितमेवमेव फाल्गुन्या .विहितं नवतिदेश इति ।

चैत्र्यां तु द्विराज्यस्योपस्तीर्य द्विर्दधि गृहीत्वा सकृदाज्येनाभिघारयति ।

तत्र संसृष्टं पञ्चगृहीतमुक्तमत्र पुनर्द्विराज्येनोपस्तीर्येत्यादिना दन एव हविष्ट्वमा- ज्यस्योपस्तरणाभिधारणार्थत्वमिति तत्तु पूर्वोक्तेन विरुध्यते पृषदाज्येनानूयाजान्यज- तीति श्रुतेरविशिष्टत्वाद्दध्नाऽनूयाजा इय॑नभिधानाच्च । तस्मादुपस्तरणाभिधारणशब्दौ व्याख्येयौ । आज्यस्येति कर्मषष्ठी। तेनाऽऽज्यमुपस्तीर्येत्ययमर्थो भवति पृषदाज्यधान्या- माज्यमुपस्तरणं न संस्कारकं संस्कार्यत्वात्तत्रेत्यर्थाविधि गृह्णाति तप्ते प्रातर्दोहं इति. वदधिकरणस्यापि संस्कारो भवत्याज्यस्य । तथाचोपस्तीर्णमाज्यं द्विर्दधिग्रहणेन