. ४५२ सत्यापाढविरचितं श्रौतसूत्र- [५ पक्षमप्रभे- संस्कृत्य तृतीयानिर्दिष्टेनाऽऽज्येनाभिधारणेन संस्कृतस्याऽऽज्यस्यैक संस्कारः । एवं मनसि निधाय श्रुतिरेव पठिताऽऽज्यस्योपस्तीति तथाऽऽऽयेनामिधारयतीति च। ततस्तु पश्चमिर्म गुहाति ।
उद्वासनप्रभृतीनि कर्माणि प्रतिपद्यते ।
मारुतमुद्रास्याऽऽमिक्षामुद्रासयति ।
अन्यस्मिन्पात्र एककपालमुद्वास्य प्रभूतेन सर्पिषाऽऽभ्यानीयाऽऽविष्पृष्ठं करोति ।
भपूर्वकालौकिकेनाभिपूर्ण पात्रे यथा पुरोडाश आविर्भून प्रकटममानं पृष्ठं वस्येति तथा । अलंकरणकाल इत्यापस्तम्बः।
व्याहृतिभिर्हवीꣳष्यासादयति तथा संवत्सरे ।
हवीपीयुक्तत्वाद्वाजिनं तूष्णीमेवोत्करे तथा संवत्सरेऽतीते. व्याहृतिभिरेव हवींषि चातुर्मास्येष्वासादयेत् । एतदम्पस्त चातुर्मास्यविषयम् ।
निर्मन्थ्यस्याऽऽवृता निर्मन्थ्येन प्रचरति ।
गतार्थम् ।
वेदं निधाय सामिधेनीभ्यः संप्रेष्यति ।
क्रमानुवाद उत्तरविधिसया ।
नव प्रयाजान्यजति चतुर्थे समानीयाष्टमे सर्वꣳ समानयते ।
कृतव्याख्यानं पशौ नवमोऽन्त्यविकारः। समिधो यति. प्रथमं यज यत्युत्तरान् ।
सर्वत्रोपाꣳशु सावित्रैककपालयोर्देवता यजति ।
अत्रान्यत्र च यत्र यत्रैती । स्पष्टमन्यत् ।
कृत्स्नमेककपालमवदायाऽऽशयमनुपर्यस्यर्जुं प्रतिष्ठितमपर्यावर्तयञ्जुहोति ।
आशयेनैवोपस्तरणं सर्वमवदायोपरि पूरितमाज्य से चयित्वर्जुमुखं पूर्वदिशि प्रतिष्ठित प्रक्षेपोत्तरकाले यथा हुत एवं तिष्ठत्तथाऽपर्यावर्तयन्नुतानमकुर्वजुहोति । भाशयमेव पुरस्तादुपरिष्टाच प्रक्षिपति ।
यदि हुतः पर्यावर्तेत वरे दत्ते स्रुचोऽग्रेण कल्पयेत्प्रत्यादाय वा पुनर्जुहुयान्न पाणिनेत्येकेषाम् ।
माध्वर्यवे वरे दत्ते नुचोऽग्रेण समं कुर्याद्धस्तेन वाऽवदाय पुनर्जुहुयात्नुचा वेत्ये. केषां पुन:म भाश्रावणादिना । १ ख. ग. घ. स. ज. स. म. स. १.स. प. 'हतीभि'।