पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-- ४४८ सत्यापाढविरचितं श्रौतसूत्र- [५ पञ्चमप्रभ--

तान्यालभमानः फाल्गुन्यां पौर्णमास्यां चैत्र्यां वा पूर्वस्य पर्वण औपवसथ्येऽहनि पञ्चहोतारं मनसाऽनुद्रुत्य सग्रहꣳ हुत्वाऽन्वारम्भणीयामिष्टिं निर्वपति वैश्वानरं द्वादशकपालं पार्जन्यं चरुम् ।

तानीति महुवचनं नानापर्वसु क्रियमाणत्वेन फाल्गुन्यां पौर्णमास्यां च्या वा पौर्णमास्यामालभमानः । पूर्वस्य पर्वण इत्यन्वयः । पौर्णमासीग्रहणं प्रतिपन्निवृत्त्यर्थ हुत्वा निर्वपतीति समानविक्त्वरूपापनार्थम् । भग्निगुणको वैश्वानरो द्रष्टव्यः । याज्या- पुरोनुवाक्ययोविशिष्टाभिधानात् । तस्मादग्नये वैश्वानराय जुष्टमित्यादि पर्जन्यदेवताकं घरुम् । पौर्णमास तन्त्रं पौर्णमासीसमीपे क्रियमाणत्वात्सद्यस्कालत्वाच्च प्रत्येकमनि- प्रणयनम् । स्पष्टमन्यत् । हिरण्यं वैश्वानरे धेनुं पार्नन्ये । दक्षिणा भरगेश्यामपि वचनात् । वैश्वदेवेन यक्ष्य इति संकरप्य-

प्राचीनप्रवणे वैश्वदेवेन यजते ।

प्राचीनप्रवणता नियम्यत उदीचीनप्रवणताप्रागुदक्प्रवणतासमतास्वपि प्राप्तासु । तादृशे देशे । विश्वे देवा देवता यस्याः सा वैश्वदेव्यामिक्षा तस्याः शाखाहरणेन मुखतः प्रवृत्तत्वान्मुख्यत्वं बलीय इति सर्वस्य कर्मसमुदागस्यैतयोपलाक्षितस्य नामधेयं वैश्वदेवमिति । सौम्यद्यावापृथिव्ययोर्मारुतामिक्षाभ्यां समत्वादभेदकत्वान्न तन्त्रप्रयो। 1 जकत्वमिति मुख्यत्वमेव बलीयः । ब्राह्मणे तु यद्विश्वे देवाः समयजन्त तद्वैश्वदेवस्य वैश्वदेवत्वमिति वा निर्वचनम् । समुदायनामधेयस्य मुख्यत्वात्तन्त्रं त्वामावास्यमेव । आमिक्षायाः पयोविकारत्वादित्युक्तमेव ।

उदवसायानुदवसाय वा।

गृहेम्योऽन्यत्र गत्वा तेष्वेव वा प्राचीनप्रवणतां संपाद्य यनेत । भन्वारम्भणीया तु प्राकृत एव विहारे । वैश्वदेवार्थमेव प्राचीनप्रवणता तथैव विधानात् ।

अग्नेरावृताऽग्निं प्रणीय ।

नित्यधार्यान्यस्य प्रणयने प्राप्ते तत्र धर्मवत्ता विधीयते । भग्नेरग्निप्रणयनस्याss. वृताऽग्निं प्रणीय तत्र पशावुकेऽग्निप्रणयने प्रणयनस्य धर्मास्तद्वता विधिनेत्यर्थः । गार्हपत्यादग्निप्रणयन पशुबन्धवदिति वैखानसापस्तम्योक्तेः । नोद्यतहोम इति च । अत्रैतावान्विशेषः-गार्हपत्येऽग्निप्रणयनानीत्यादि । यत्ते पावकेति च न होमः । पूर्वो यत्सन्न परो मवासोतिलिङ्गविरोधात् । १ घ. ज. स. म, यजेत।