पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४२ सत्याषाढविरचितं श्रौतसूत्र- [४ चतुर्थप्रश्ने-

चतुर्थप्रभृतिषु यजेति मैत्रावरुणेनोच्यमाने यज यजेत्यध्वर्युराहान्यत्र दशमात् ।

मैत्रावरुणेन होतर्यनेत्युच्यमाने तत्र यनेत्यनेन सहैवाध्वर्युर्यन यजेत्याह दशमं पिना चतुर्थप्रभृतिषु सप्तस्वपि दसमस्य प्रथमविकारत्वात्त्रयः प्रथमविकाराः क्रमेण सतो मध्यमस्य ततो द्वाबुत्तमस्याष्टमो मध्यमस्य नवम उत्तमस्य दशमः प्रथमस्योत्तम उत्तमस्पति तथेज्याऽपिया।

समुद्रं गच्छ स्वाहेति ।। १६ ।। एतैः प्रतिप्रस्थाताऽनूयाजानाꣳ हुतꣳ हुतमुपयजति ।

यत्र च स्वाहाकार इति वचनाद्दविहोमेऽपीतरधर्मनिवृत्तिः स्वतन्त्रधर्मविधानात् । हुत हुतमनूयाजानां प्रक्षेपमुप.समीपे यजति जुहोतीत्यर्थः । समुद्रं मच्छेत्येतैरेकादश- मिमन्त्रैरेकादशोपयजो जुहोति ।

उपयज उपेज्याद्भ्यस्त्वौषधीभ्य इत्युत्तरतो बर्हिषि लेपं निमार्ष्टि ।

क्रमप्राप्तस्योपयन उपेज्येति वचनं प्रतिप्रस्थातुरेवोपयजावदानलेवप्रतिपत्तिविधा- नार्थ वेद्यां स्तीर्णे बहिषीत्युक्तम् ।

मनो मे हार्दि यच्छेति हृदयदेशमभिमृशति ।

स एव । अशीयेत्यन्तः।

जुह्वा त्रिः स्वरुमङ्क्त्वा द्यां ते धूमो गच्छत्वन्तरिक्षमर्चिः पृथिवीं भस्मना पृणस्व स्वाहेति जुह्वाऽऽहवनीयेऽध्वर्युः स्वरुं जुहोति ।

जुहोतिचोदितदविहोमधर्मनिवृत्त्यर्थहनीयजुर्मात्रग्रहणं, प्रतिप्रस्थातुरधिकारनिन वृत्यर्थमध्वर्यग्रहणम् । स्पष्टम् ।

वाजवतीप्रभृतीनि कर्माणि प्रतिपद्यते ।

प्राकृतपदार्थावसरार्थमिदं, वाजवत्या क्रियमाणं वाजवतीत्येव कर्म तत्प्रभृति । द्वयो- जुहूसंतत्वावयोश्चोपभृत्संज्ञवात्सर्वा व्यूहति । सर्वासु प्रस्तरमनक्ति । तथा चाऽऽह भरवानः-सर्वा मुहूपभूतो न्यूहति सर्वासु प्रस्तरमनक्तौति सर्वाः कस्तम्भ्यां सादयतीति ।

सूक्ता प्रेष्येति सूक्तवाके संप्रेष्यति ।

विकृत्यर्थमिदं सूक्ता ब्रहीत्यस्य स्थाने प्रकृतिवदन्यच्छंयुवाकान्तम् ।

प्रतिपरेत्य पत्नीः संयाजयति ।

विशेष वक्तुमनुवादस्तदेवाऽऽह-- १ ट. "ध्यमौ द्वौ मध्यम । २ ग. उ. प. नीये जु। ३ ख, ग, घ, छ, ज. श. म. उ... ग. संयाजयन्ति ।