४४० सस्याषाढविरचितं श्रौतसूत्रं- [ ४ चतुर्थन इति प्रदक्षिणमित्येव चूयात् । प्रतिय जतीतिदानार्थस्य धातोरप्रयोगान स्वाहाकारापेक्षा । ततस्वियं शेषप्रतिपत्तिारेति प्रदक्षिणमनुपरिषिञ्चतीति प्रयोगेण दर्शितम् । तस्मात्र पुरस्तात्स्वाहाकारेण दर्विहोमता तेन स्वाहानमतं मारुतमंत्र न दर्विहोमतेत्यलमति- प्रसङ्गेन ।
नमो दिग्भ्य इति हुत्वोपतिष्ठते ।
हुन्वेति वचनं प्रतिप्रस्थातुरेवोपस्थानार्थम् ।
अत्रैव तिष्ठन्पृषदाज्यस्रुवं जुह्वामानीय वनस्पतयेऽनुब्रूहि वनस्पतये प्रेष्येति संप्रेष्यति ।
अत्रैव दक्षिणत एवकारी भरद्वाजोक्त उत्तरतोवस्थाननिवृत्त्यर्थः । पृषदाज्येन पूर्ण सुर्व स्थालीगतेनौपभृतस्यानूयानार्थत्वात् । वषट्कृते जुहोतीति शेषः । अत्र हविःसामा- न्येनोपांशुयागधर्मसकृदवदानस्विष्ट कृदेवतासंस्काराम्यां स्विष्टकृद्धर्मेण बाध्यते (!)। कुतः । हविःसामान्यं प्रधानयागे बलवन्न स्विष्टकृत्वप्रधाने ।
औपभृतं जुह्वां पर्यस्याग्नये स्विष्टकृतेऽनुब्रूह्यग्नये स्विष्टकृते प्रेष्येति पशुस्विष्टकृति संप्रेष्यति ।
पर्यस्य रेचयित्वा । स्पष्टमन्यत् । वषट्कृते जुहोतीति शेषः । अत्रैव तिष्ठन्नित्य- प्यनुवर्तते ।
अत्रैवैके पशुसंमर्शनं दिशां प्रतीज्यामिति समामनन्ति ।
शृताशृतपशोः । गतार्थम् । यथाप्रकृति याजमानम् ।
मेदोमिश्रमवान्तरेडामवद्यति ।
विशेषाभिधानं मेदोमिश्रमवान्तरेडामिति ।
यं कामयेतापशुः स्यादित्यमेदस्कं तस्मा आदध्याद्यं कामयेत पशुमान्त्स्यादिति मेदस्वत्तस्मा आदध्यात् ।
अमेदस्कावान्तरे डावदाननिन्दया प्रथमोऽर्थवादो द्वितीयो विधिः सत्यां कामनाया- मसत्यामपि मेदोयुक्तैवावान्तरेडेत्यर्थः ।
उपहूतां मैत्रावरुणषष्ठाः प्राश्नन्ति ।
पूर्वपशुपुरोडाशेडां मैत्रावरुणपञ्चमा एव प्राशितवन्तोऽत्र न तथा प्रतिप्रस्थातुर्वपा- अपण उपयोगात्पश्विडा तस्यापीति वक्तमुक्तं मैत्रावरुणषष्ठा इति न यनमानपर्युवा- सार्थमिति । १ क, म. प. . द। २ ग. ह. न. प्रधाः ।