अत्याकम्य- ६५० पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४३९
यूषेणोपसिच्योपरिष्टाद्धिरण्यशकलाववधायाभिघार्य ।
जुह्वाधवत्तानि यूषेणोपसिच्य यथेतमुत्तरत आनीय जुइपभृतोहिरण्यशकलाववधाय यथाविधि सर्वाग्यमिवार्य ।
इन्द्राग्निभ्यां छागस्य हविषोऽनुब्रूहीति संप्रेष्यति ।
सौर्यप्राजापत्ययोरपि प्रदर्शनार्थ, सष्टमन्यत् ।
आश्राव्य न प्रेष्यति मैत्रावरुणो होतारं चोदयति ।
कृसव्याख्यानम् ।
घृतं घृतपावान इत्यर्धर्चे ।। १५ ।।
याज्यायाः प्रतिप्रस्थाता वसाहोमं जुहोति ।
प्रतिप्रस्थाता उप्रेणाऽऽहवनीयं गत्वा घृतमिति मन्त्रं याज्यया सहाऽऽरम्य तस्या अधः समाप्तेऽन्तरिक्षाय स्वाहेत्यन्तेन जुहोति । वषट्कृतेऽध्वर्युह विर्जुहोति । इन्द्रि. यावी भूयासमिति नेमानमिति वा सर्वपशुवपानुमन्त्रणम् ।
वसाहोमोद्रेकेण दिशः प्रति यजति ।
यमति जुहोति । उदेकेण शेषेण होमे कृतधाराया अविच्छेदेन जुहोति अग्रिमा- नपि होमान्न मध्ये विच्छेदं कुर्वन् ।
दिश इति पुरस्तात्प्रदिश इति दक्षिणत आदिश इति पश्चाद्विदिश इत्युत्तरत उद्दिश इति मध्ये स्वाहेति सर्वत्रानुषजति ।
सर्वप्रेति स्वाहाऽन्तरिक्षायेत्यत्राप्यन्तेऽनुषङ्गः । दर्विहोमत्वादन्ते प्राप्तेऽपि यन्मध्य- मस्वाहाकारस्तीकारो भरद्वानादीनामन्ते च कर्तव्यः प्रक्षेपान्तव्यावृत्त्यर्थे । दिश इत्या. दावपि प्रतियजति चोदितत्वेन न दर्षिहोमतेत्याशक्य यजतेनमात्रार्थस्यात्राप्रयो- गायाज्याया अभावान्न वषट्कार इति स्वाहानुषङ्गेणैव प्रदानमत्रापि प्रतियजतिना लक्ष्यते तादृशमेव दिशो जुहोतीति श्रुतेदविहोमताविधानार्थ च ननु(तु) पुरस्तात्स्वाहा- कारो धृतमित्ययं मन्त्रो नापि देवतापदात्पूर्व स्वाहाकारेण पुरस्तात्स्वाहाकारो भवति स्वेतिपदेन व्यवधानादन्तरिक्षायेति देवतापदान्ये(दस्य)त्यनेन ज्ञापितमेव विकृतं वय- होमे । अनुषतोऽत्र स्वाहाऽन्तरिक्षाय यत्रत्यस्य स्वाहाकारस्थाथवा स्वाहा दिग्म्य इत्यस्य पूर्वमप्यनुषङ्गः । स्वाहा दिग्भ्य इत्ययं न दविहोम इत्याह -
स्वाहा दिग्भ्य इति प्रदक्षिणमनुपरिषिञ्चति ।
अनुपरिषिश्चतीति प्रयोगान्न दविहोमता नापि यत्र च स्वाहाकार इत्यनेन मता- न्तरविवक्षितत्वात् । कुतः । यद्यवदानस्य तथापि दविहोमत्ये सति स्वाहा दिग्भ्य