1 सत्याषाढविरचितं श्रौतसूत्रं- [४ चतुर्षप्रशे-
अवशिष्टं च गुदकाण्डं तृतीयं च मेदसो वनिष्ठुꣳ सप्तमं यदि शृतो भवत्यनस्थिभिरिडां वर्धयति ।
यदि वनिष्ठुः शृतो भवति तस्य बहुपाकप्तहत्वाद्यदि पशुना सह न पक्कस्वदा नाव- धति पक्कशेदवद्यति । मतन्नान्तानि षडतदानानि । मृतश्चेद्वनिष्ठतं सप्तममवदाय ततो गुदकाण्डं ततो मेदै इति क्रमप्रदर्शनार्थ वनिषु सप्तममित्युक्तम् । अनस्थिभिर्मासैः क्लोमादिभिरिडों वर्धयति पुष्टां करोति नैतान्यवद्यति । वानपेयेऽनबहानीयानि वाज- सृभ्यः प्रयच्छतीत्यादि तत्र तत्राननदानीयत्वं वक्ष्यति तच्चोषपन्नं भवति । अन्यानि यानि मेध्यानि मांसानि तेषामप्यत्रैव विनियोगोऽन्यथा तेषामुद्धरणमनर्थकं स्यात् । भत्र यनमानमागावदानं देवतेभ्यो दशभ्य एव गुदस्य विभज्य विनियोगात् । औप- भृतेडानां च पृथक्तया विभागकरणेन प्रतिपादनान्न शेषार्थेभ्यः शेषकार्य यजमानभाग- लक्षणं तस्मात्प्रधानावदानेभ्य एव । तथाचायं क्रमः-इडायाँ हृदयादीनां गुदान्ताना- मष्टानामेकैकं समवदायडायामवधाय ततो हृदयादिभ्यो दशभ्यो यजमानभागस्ततः पुनरावदानमष्टभ्यस्ततोऽनस्थिभिरिडां वर्धयतीति ।
शृतमशृतं च पशुꣳ संनिधायैन्द्रः प्राण इति संमृशति ।
शृतमशृतं मन्त्रेण संमृशति । माता पितरो मदन्त्वित्यन्तः ।
वसाहोमहवन्यां वसाहोमं गृह्णाति ।
वसा रसः । वसा चासौ होमश्चेति हुयतेऽसौ होमो ग्रहणम् । वसां गृह्णातीति वक्तव्ये श्रुतिप्रसिद्ध्योक्तं पार्श्वन वसाहोमं प्रयोतीति श्रवणात् ।
श्रीरसीति स्रवन्तीं धाराꣳ स्वधितिना तिर्यगाच्छिनत्ति ।
वसाहोमग्रहणप्रकार एवोच्यते । श्रीणात्वित्यन्तेन मन्त्रेण स्वधितिना धारा दक्षिणहस्तेन कृतां वामेन विच्छिनत्ति | स्त्रवन्ती संतताम् ।
सकृच्चतुरवदानस्य द्विः पञ्चावत्तिनः ।
सकृच्छेदेन द्विरवदानं भवति धतुरवदानवतः । उपस्तरणाभिधारणाभ्यां चतुरवत्तं स्यात्पश्चावत्तिनस्तु द्विच्छेदेन त्रीण्यवदानानि भवन्तीत्यर्थः ।
आपः समरिणन्निति पार्श्वेन वसाहोमं प्रयौति स्वधितिना प्रयौतीत्येकेषां पार्श्वेनापिदधतीत्येकेषाम् ।
प्रयोत्सालोडयति वसाहोमहवनीगतां वसाम् । पार्श्वस्य स्वधितेश्च प्रयवणे विकल्पः। प्रयवणस्यापिधानस्य च विकल्पः । रोहिप्या इत्यन्तो मत्रस्त्रिष्वपि ।
अत्रैक ऊष्मणोऽनुमन्त्रणꣳ समामनन्ति ।
कुम्भ्यां यदुक्तं स्वाहोष्मणोऽव्यथिष्या इत्यनुमश्रणं तदत्रैकेषां शाखिनाम् । १६. °निष्टु स। २ घ. अ. ज. झ. घ. द. "गाच्छपति ।