पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

और

६१० पटल: ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४३७

पुरस्ताच्छ्रोणेर्गुदस्यावद्यत्युपरिष्टाद्वा।

श्रोण्यवदानाच्या पूर्व पश्चाद्वति विकल्येन त(य)याकाममित्यत्र नियमः । अत्र यद्यपि हविष एकत्वान्मा मेरिति सकृत्याप्तं तथाऽप्यवान्तरप्रदेशभेदान्नामभेदाच प्रत्येक मन्त्री यदवदानानीत्ययमपि हृदयादीनि श्रोण्यन्तान्येकश उक्तानि तेषा- मविशेषेण द्विद्विरवदानम् । गुदः साधारण इत्युक्तम् । तत्र विभागप्रकारमाह-

गुदं द्वैधं करोति स्थवीय उपयड्भ्यो निदधाति ।

द्वेषाकृतस्य गुदस्य स्थूल काण्डमुपयड्ढो मार्थे निदधाति ।

अणीयस्त्रैधं कृत्वा तस्य मध्यमं गुदकाण्डं द्वैधं विभज्य दैवतेष्ववद्यति ।

द्वेषाकृतस्य गुदकाण्डस्य यदीयो भागस्त त्रेधा कृत्वा तस्य मध्यमभागो द्वेधाकृतो द्विरवदानं दैवतेष्ववद्यति स्थापयति । अत्रैवावदानानां मन्त्रप्रत्यभिधारणे, अवद्यतीत्यचैव श्रवणाद् द्वैधं करोतीत्यादिना विभागमात्रमवदेयवद्व्याणां कृतमिति नावधानत्वम् । एवं चैकादशावदानानि द्विरवत्तानि भवन्ति ।

उपभृति महत्त्र्यङ्गयोरवद्यत्यवशिष्टयोश्च गुदकाण्डयोरन्यतरत् ।

महकुदकाण्ड श्रेधाविभक्तस्य यौ भागाववशिष्टौ तयोर्मध्ये यन्महत्स्थूळ तत्तथा व्यङ्गयोदक्षिणबाहुसव्यत्रोण्योस्तयोरेव रूढ्या व्यङ्गसंज्ञा गुदस्य च दोषपूर्वार्धय गुदं मध्यतः श्रोणि जवनार्धस्य ततो देवा. अभवन्पराऽसुरा यज्यशाणा समवद्यतीति श्रुते- स्त्रीप्येवावदानान्युपमृति ।

त्रेधा मेदः कृत्वा यूषेऽवधाय तृतीयेन जुहूं प्रच्छादयति तृतीयेनोपभृतम् ।

प्रच्छादयतीत्युभयत्र धाकृतस्य मेदसस्तृतीयेन तृतीयेन यूषे पशुरसे रसो वा एष पशूनां यद्यूरिति श्रुतेः । मेदो व्याख्यातम् । अत्र हि पशुना यतेन्द्रामः पशरित्या- दिना पशोरेव देवतायै दीयमानत्वेन हविष्दैन प्रत्येकमेकादशावदानानाम् । तेन यया मध्यात्पूर्वार्धाच्च पुरोडाशावदानमुत्तराधीस्विष्टकृत इति नियमः (१)। पुरोडाशे देवता. संबन्धेन यागदव्य एव पृथस्थानतया विभाग एव पशावपि स्थानभेदेन दैवतसौविष्ट- कृतेडावदानानां करणेऽपि सौविष्टकृतादीनां हविःशेषप्रतिपत्तिरूपतानामुपैतीति ज्ञेयम् ।

समवत्तधान्याꣳ हृदयं जिह्वां वक्षः स्तनिममतस्ने

१ क. च.ट. 'विष्ट्वेन । २ च. "तामु । ३ क. ग. च. छ. स. उ. प. "म् । भवत्तत्वान्न । स। क. ख. ग. घ. द. न. छं. ज, झ. म. ट, ठ, ण, जिला ।