पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- सत्यापाढविरचितं श्रौतसूत्रं- [४ चतुर्थप्रभे- तस्यामेवाग्निहोते त्यासादयति । प्राकृतमन्त्रनिवृत्तिः । यस्त आत्मेति यानमानम् । स्वमिन्द्रियमित्यविकृतं हविषोऽत्राSSमादितत्वात् । हविषो ऽवदीयमानम्यानुब्रहीति च्छामस्य हविष इत्यादि शृतर हवीरित्यत्रापि हविष एवावदीयमानत्वं नवनाना- मिति न्यायेन साधितं न्यायविद्भिस्त एव द्रष्टव्याः।

हृदयशूलं प्रज्ञातं निदधाति ॥ १४ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे चतुर्थप्रश्ने चतुर्थः पटलः ।। ४ ।।

अग्रे प्रतिपत्तिविधानार्थमित्यर्थः । इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोग- वैजयन्त्यां चतुर्थे पशुपने चतुर्थः पटलः ॥ ४ ॥


४.५ अथ चतुर्थप्रश्ने पञ्चमः पटलः ।

यजमानेन व्याख्याते पञ्चहोतरि-

जुहूपभृतोर्वसाहोमहवन्याꣳ समवत्तधान्या चोपस्तृणीते ।

जुहूपभृतोर्बुवाज्यमन्ययोः स्थाल्याज्यं समवत्तमिडार्थ तस्य धान्याम् ।

जुहूपभृतोर्हिरण्यशकलाववधाय मनोतायै हविषोऽवदीयमानस्यानुब्रूहीति संप्रेष्यति ।

जुहूपभृतोहिरण्यशकलाववधाय ततः संप्रेष्यति ।

प्लक्षशाखायामक्तया धारया दैवतानां द्विर्द्विरवद्यति ।

यत्प्लाशाखोत्तरबर्हिर्भवति समेधस्यैव पशोरवद्यतीतिश्रुतेहिण्येव स्तीर्णे स्तीर्णायां प्लक्षशाखायामित्यर्थः । सानाय्यवदङ्गुष्ठपर्वमात्राण्येव ततः स्यूलानि सौविष्टकृतानि ततोऽपि स्थूलान्यतानीति सुवेणावदाने चोदकपाते धारयेत्यर्थे सामर्थ्यादित्युक्तं पूर्वमेव प्रज्ञातयाऽक्तया स्वधितेरिया दैवतान्यवदानानि पूर्वमेवोक्तानि तेषां द्विद्विरेकैकम् । अत्र चोदकपाते द्विरवदाने सति पुनििद्वरिति विधानं प्रत्येकमङ्गेषु यथा स्यादिति नो चेत्सर्वस्यैव सकृविरवदानमिति चोदकेन प्राप्नुयादेकादशावदानान्यवद्यतीति श्रुतेरपू- वोऽवदानविधिरित्युक्तम् ।

हृदयस्याग्रेऽवद्यत्यथ जिह्वाया अथ वक्षस इत्येतेषामनुपूर्वमवदाय ।

श्रुतिपाठेन दर्शितः ।

यथाकाममुत्तरेषामवद्यति ।

श्रुतिरेव । साष्टार्थम् ।