पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

P ११० पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

प्राशित्रमिडा च क्रियेते प्राशितायां मार्जनं पिष्टलेपफलीकरणहोमौ प्रणीतासुमार्जनमुपवेषोदसनं कपालविमोचनं च क्रियन्ते ।

प्राशितायामित्यादिकानि क्रियन्त इति बहुवचनेन संबध्यन्ते । वैशेषिकाङ्गप्रदर्शन प्रप्त सिद्धानपरिसंख्यार्थ प्रसकेनोपकरिष्यमाणाङ्गपरिसंख्याथै च । वैशेषिकस्यापि यजमानभागस्य परिसंख्या ।

तस्मिन्कृते जुह्वां पञ्चगृहीतं गृहीत्वा ।

विमोचनान्ते कृते सानाम्यवदभिधारणं स्थास्याज्येनेति पञ्चगृहीतं स्यात्याज्येन, वृषेणापिधारणानिवृत्तये जुवामित्युक्तम् ।

पृषदाज्यस्रुवमादाय ।

पृषदाज्यपूर्णबुवस्तथा स्थालीपृषदाज्यं स्नुषेण गृहीत्वा ।

शृतꣳ हवी३ः शमितरित्यभिक्रम्याभिक्रम्य त्रिः पृच्छति शृतमिति शमिता त्रिः प्रत्याह ।

पञ्चगृहीतं वं च गृहीत्वा किंचिदभिमुखं गत्वा शृतर हवी ३: शमिसरिति श्रावय. पृच्छति पुनरभिक्रम्य तयैव पृच्छति तृतीयमप्यमिकम्य तथैव प्रतिप्रभ व शृतमिति प्रत्याहैवं त्रिः प्रभस्त्रिरुत्तरम् ।

उत्तरतः परिक्रम्य शूलाद्धृदयं प्रगृह्य कुम्भ्यामवदधाति ।

परिक्रम्प कुम्म्या उत्तरतः प्रदक्षिणं गत्वा शूळे प्रोतं हृदयं निर्गमग्य हृदयं प्रज्ञातं कुम्भ्यामवधाय ।

सं ते मनसा मन इति पृषदाज्येन हृदयमभिघारयति ।

वेण गृहीतेन पृषदायेन कुम्भ्यामवहितं हायं तेनाभिघारयति । स्वाहान्तो मनः ।

स्वाहोष्मणोऽव्यथिष्या इत्यूष्माणमुद्यन्तमनुमन्त्रयते ।

कुम्भीस उद्यतः । स्पष्ट मन्यत् ।

यस्त आत्मा पशुषु प्रविष्ट इत्याज्येन पशुमभिघार्य ।

जुह्वाज्येन पश्चगृहीतेन पशुं कुम्मीगतम् । मह्यमित्यन्तः । पञ्चगृहीतेनामिषारण वक्तुं चोदकप्राप्तस्यानुवादः । मन्त्रप्रदर्शनं सं ते मनसेतिमन्त्रानुवृत्तिनिरासार्थम् ।

येन वपां तेन हृत्वा यत्र वपा तत्र पञ्चहोत्राऽऽसादयति ।

येनाऽऽहवनीयस्य यूपस्य च मध्येन वपा हता. तेनैव हृत्वा बहिषि क्षशाखा यां १५. ज. स. म. द. स्विष्टकरप्राशि । २ प.स.स. स. द. क्रियन्ते । ३.घ..जझ. ग. र. क्रियते। ४ प. रु. ज. स. म. द. खुर्व चाया। ५ग.. ग. सुतं ।