पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाठविरचितं श्रौतसूत्रं- [४ चतुर्थप्रश्ने-

ऊवध्यगोहं पार्थिवं खात्वा तत्र शकृत्संप्रविध्यति ।

अध्वर्युरेवोवध्यं शकृत्तह्मते येनावटेन स गर्त ऊवध्यगोहस्तं पृथिव्यां खात्वा तत्र सर्व पुरीष प्रक्षिपति ।

शृते पशौ पशुपुरोडाशेन प्रचरति ।

शाखान्तरीयोऽयं विचिदर्शितः । वपायागानन्तरं मानयिस्वा पशुपुरोडाशस्य पात्र- सरसादनप्रभृतीनि कर्माणि प्रतिपद्यत इस्युक्तस्ततस्तु हविष्कृता वाचं विसृज्येति शृते पशौ पशुपुरोडाशेन प्रचरतीत्यन्तः । अस्मच्छाखीयस्तु पशुमालम्य पुरोडाशं निर्वपति समेधमेबैनमालभते वपया प्रचर्य पुरोडाशेन प्रचरतीति श्रूयते तेन विकल्पः । तत्रार्य क्रमः-संज्ञप्ते पशौ वाचं पिसृन्य पशुपुरोडाशस्य पात्रससादनप्रभृतीनि कर्माणि प्रतिपद्य तण्डुलप्रक्षालनान्ते कृते पशुमुपायन्तीत्यादिवपाप्रचारे मार्जनान्ते पशुपुरोडा- शस्य कृष्णानिनादानादिना पशुपुरोडाशप्रचारेण कपालविमोचनान्ते कृते पशु विशा. स्तीत्यादिना शृते पशौ जुबां पञ्चगृहीतमित्यादि वक्ष्यमाणं पशुतन्त्रमव्यवधानेन करो- तीत्यस्मच्छाखाक्रमः। प्रकृतमनुपरामि गते पशौ पशुपुरोडाशेन प्रचरतीत्युक्तं कृष्णानिनादानादिन हविरासादनान्ते कृते पश्चरेव प्रसङ्गात्पशुपुरोडाशोपकारे सति वैशेषिकमेव तत्रं दर्शयति-

जुहूपभृतोरुपस्तीर्यावदायाभिघार्य ।

जुह्वा हविरवदानेन दैव उपभृति विष्टकृदवदानं तत उभयत्र यथाविध्यमिवार्य ।

इन्द्राग्निभ्यां पुरोडाशस्यानुब्रूहीति संप्रेष्यति ।

गतम् । अत्याकम्य-

आश्राव्य न प्रेष्यति मैत्रावरुणो होतारं चोदयति ।

कृतव्याख्यानम् । वपकृते जुहोतीत्यन्ते कृते-

औपभृतं जुह्वां पर्यस्याग्नयेऽनुब्रूह्यग्नये प्रेष्येति संप्रेष्यति ।

दक्षिणे स्थित एवापभृतमवदान जुबां प्रक्षिपत्यग्नय इत्यादि आश्नाव्याग्नये प्रेष्येति संप्रेष्यति । वषट्कृते स्विष्टकृद्धर्मेण जुहोति । प्रत्याकम्येत्येतदन्ते कृते- १, च. द. ति स्विष्टकृति सं।