पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

H ४१० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४३३

दैवतानि ।

अवदानानि प्रधानदेवता नि कालेऽवदानाहाणि मांसानि ।

दक्षिणं दोः सव्या च श्रोणिः सौविष्टकृते ।

विष्टकृते देवताया महदे (1) अवदाने ।

गुदः साधारणः ।

देवतसौषिष्टकृत डावदानार्थ उपयड्ढोमार्थश्च । गुरशब्देन पक्कं पुरी यस्मिन्स गुदं भत्याकृष्यते तद्गुदं गुदकाण्डमित्युच्यते ।

गुदं मा निर्व्लेषीः क्लोमानं प्लीहानं पुरीततं मेदः समवधातया इति संप्रेष्यति ।

क्लोमा नाम गलनाडिका:(का) प्लीहा यकृत्सहशो वामभागपार्श्वस्थः । एतन्मांसं कयाऽपि नाड्या न परिगृहीतमसंलग्न मेव तिष्ठति । पुरीत पुरी हृदयं तयेनाऽऽच्छा. दितं तत्पुरीततम् । पुरी हृदयं तत्पुरीतता प्रच्छादयतीति श्रुतत्वात् । मेदो नाम बद्धं त्ययोदयस्य च वेष्टनकोशः । एतानि गुई मा निन्लेषीरिति. गुदस्याऽऽन्तरप्रदेश चहिर्मा कार्कीरित्यर्थः । शमिता तु-

न गुदं निर्व्लिषति न वनिष्ठुं निर्भुजति ।

स्थूलसकृदाधार आन्त्रं स्थूलं बनिष्ठुः । तद्विपरीत बहिर्भागमान्तरं न कुर्यात् । गतम् ।।

अध्युद्धिं जाघनीं वनिष्ठुं चान्ववदधाति ।

अध्युद्धिरूषस उपरितनं मांसम् । जापनी जघनप्रदेशे भवा जापनी पुच्छंच पनिष्टुं तान्प्रत्येकं लक्षयित्वाऽवधानेन स्थापयति ।

यदन्यच्च मेध्यं मन्यते ।

मांसनातमिति शेषस्तदप्यन्ववदधातीत्यनुकृप्यते ।

कुम्भ्यां पशुꣳ समवधाय श्रपयति ।

पशुमामान्युद्धनानि तानि सानारगम्भोधर्मेण शामित्रेऽनो स्थापितायां पशुकुभ्या- मध्वर्युरवधाय मानास्यमन्त्रेण शमित्रा कृत्वा पनि । पाकामिनिमवशिष्येत्युक्तत्वा- च्छामित्रेऽग्नावेव पाकः । शृतर हवी३: शमितरिति प्रश्नलिङ्गाच्छमिता पचति । तं मेप्यतीत्येतावता अपयतीत्युपपद्यते ।

शूलेन पार्श्वतो हृदयम् ।

अपयतीत्यनुकृष्यते । पूर्ववदेव यथासंभव कुम्भीधर्मेण शूलेन प्रवृद्धं हदयं शामि- मानिसमीपे श्रपयति ।