पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

188- प्रष०पटलः ] महादेवकृत्तवैजयन्तीव्याख्यासमेतम् । ४२५ या श्रोत्रमित्यस्य पृषङ्मन्नत्वपक्षे तु तत्त आप्यायतामित्यादिकोऽनुषङ्ग उत्तरस्मा- दप्यनुषङ्गो न्यायविद्भिरुक्तः ।

नाभिस्त आप्यायतामिति नाभिं मेढ्रं त आप्यायतामिति मेढ्रं पायुस्त आप्यायता मिति पायुः शुद्धाश्चरित्रा इति संनिधाय पादाञ्छमहोभ्यामित्यनुपृष्ठꣳ शेषं निनयति ।

आप्यायतामित्यनुपङ्गः । शाखान्तरीयमन्त्रस्य मेटमित्यस्य मध्ये संनिवेशाप नाभिः पायुरिति पूर्वोत्तरयोः प्रदर्शनम् । में मेहनं प्रजननं शिश्नमिति यावत् । पायु- मुदः(दम्) । शुद्धाश्चरित्रा इति शं पृथिव्या इत्यन्तेन संनिधाय पादासकृदेवाऽऽप्या- ययति । अनुपृष्ठं पृष्ठदर्थेणाभिषेचनीयानामपा शेषं प्रासंस्थमेव निनयति सति शेषेऽन्यथा लोपः । निनयत्यध्वयुरभिषक्त्री पत्नी वा । शेषनिनयनं पृथिव्यामेव पृथिव्यै शुन५ शमयतीति वाक्यशेषात् ।

उत्तानं पशुमावृत्यौषधे त्रायस्वैनमित्युपाकरणयो- र्बर्हिषोरवशिष्टं दक्षिणेन नाभिं त्र्यङ्गुले त्र्यङ्गुले चतुरङ्गुले वा वपादेशे निदधाति ।

स्पष्टम् । उपाकरणाथै ये गृहीते बहिषी तयोरेकं पशूपाकरणदेशे न्यस्तमवशिष्ट- मत्र सष्टमन्यत् ।

स्वधिते मैनꣳ हिꣳसीरिति स्वधितिना तिर्यगाच्छिनत्ति ।

प्रागप्रमेव बहिनिहितं तदुपरि स्वधितेरियाऽक्तया तिरदक्षिणोत्तरमाकर्षन्न नुप्रह- रम्प्रहारेण वपादेशे छिनत्ति दीर्घच्छेदं करोति यथा वपादेशे वपा लभ्यते तावदा- च्छिनत्ति ।

छिन्नस्य तृणस्याग्रं पाणौ कृत्वा स्थविमल्लोहितेऽङ्क्त्वा रक्षसां भागोऽसीत्युत्तरापरमवान्तरदेशं निरस्याप उपस्पृश्य ।

छिन्नस्य बहिषोऽप्रभार्ग वामे पाणाविति कात्यायनादयः । कृत्वा स्थापयित्वा स्थूलं मूलमागमाच्छेदनप्रदेशे लोहितेऽङ्क्त्वा । उभयतोऽङ्क्त्वेति कात्यायनः । मेन. मधर्म तमो नयामौत्यन्तेन मन्त्रेण निरस्यत्युत्तरापरं वायव्यकोणं दिङ्मात्रस्याधिकर. णता मा भूदपि तु स्थलस्येति वक्तु मवान्तरदेशमित्युक्तं स्थल एव नान्तारक्षे निरस्य- तात्यर्थः । राक्षसत्वादुदकोपस्पर्शनम् । । १ प. ज.म. म. ठ. द 'तेनाट्यत्वा ।