पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२६ सत्याषाढविरचितं श्रौतसूत्र- [ ४ चतुर्थप्रश्ने- इषे त्वेति चपामुतिखदत्यूर्जे त्वेति तनिष्टयकर्लयोपतृणचि । उखिदति लग्ना पृथक्कराति नतु सर्वा बहिः करोति । तत्स्थैकशलया वपाश्रपण्यो- पतृणत्ति संश्लेषयति वपैकदेशमेव ।

देवेभ्यः शुन्धस्वेत्यद्भिः प्रोक्षति देवेभ्यः शुम्भस्वेति स्वधितिना वपां निमार्ष्टि ।

नीचैाष्टिं । स्पष्टम् ।।

घृतेन द्यावापृथिवी प्रोर्ण्वाथामिति द्विशूलामेकशूलां च प्रच्छादयति ।

वपाश्रपण्यौ । अप्याच्छादयति ।

इन्द्राग्निभ्यां त्वा जुष्टामुत्कृन्तामीत्युत्कृन्तत्यच्छिन्नो रायः सुवीर इति वा।

पशोः सकाशात्पृथक्करोति ।

मुष्टिना शमिता वपोद्ग्रहणमभिगृह्याऽऽस्त आवपाहोमात् ।

वोद्ग्रहणं यस्माद्देशापोद्गृहीता निर्गमिता तद्विदारितं . स्थानमभ्युपरि मुष्टि नाऽऽच्छाद्याऽऽस्ते यावद्वपाहोमः स्यात् ।

प्रत्युष्टमिति शामित्रे वपां प्रतितपति ।

शामित्राग्नौ । अरातय इत्यन्तः ।

नमः सूर्यस्य संदृशो युयोथा इत्यादित्यमुपतिष्ठते ।

गतम् ।

श्रपणार्थमग्निमवशिष्य तदेवोल्मुकमादायाऽऽग्नीध्रः पूर्वः प्रतिपद्यते ।

शामिवदेशेऽग्निशेषमुल्मुकाल्पाकार्थ स्थापयित्वा यदेवोल्मुकं पूर्वमानीतमेव गृही. स्वाऽऽनोन आहवनीयं प्रत्यागच्छत्यध्वर्योः पूर्वः पुरतो गच्छति ।

उर्वन्तरिक्षमिति गच्छति ।

अध्वर्युः । अन्विहीति मन्त्रान्तः । आहवनीयं प्रति ।

वपाश्रपणी पुनरन्वारभेते यजमानोऽध्वर्युश्च ।। १२ ।।

यजमानग्रहणं प्रकृनामोधनिवृत्त्यर्थम् । नतु(न) पुनःशब्दादालम्भकोरेव प्रवृत्तिः स्यात्ततो द्वयोरपि ग्रहणं न कर्तव्यम् । सत्यम् । भरद्वाजेनोक्तं यजमानोऽन्वारमत १ क. ख. च..छ. ट. वपया श्र। २ घ. छ, ज. स. प. उ. द. 'पौद्धरण । ३ग. उ. ग. 'योद्धरणं । र य. इ. ज. स. अ. ठ, द." दृश। . 1