पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२४ सत्याषाढविरचितं श्रौतसूत्र- [चतुर्षप्रने-

नमस्त आतानेति पत्न्यादित्यमुपतिष्ठते ।

पश्चालोका या एषा प्राच्यदानीयत इत्युक्तं प्रागानयनमित्युक्तं यस्याः पश्चादेव स्थानं सा प्राची प्रारमुख्यादित्याभिमुखी कथम्दानीयतेऽनोधन योपद्यतस्तमना (1)- थाऽऽदित्यरश्मीन्नमस्कुर्यादितिवाक्योवगतेरर्थवानोदानयनाङ्गता प्रतीयत उपस्था- नस्येति प्रतिपत्नि संस्काराङ्गत्वादावर्तते ।

अनर्वा प्रेहीति प्रतिप्रस्थाता पूर्णपात्रं धारयमाणां पत्नीमुदानयति ।

उदकपूर्णपात्रं गृहीत्वाऽऽमीनां पत्नीमृत्थाप्याऽऽनयति चात्वालं प्रति मश्रेण । पोषणेत्यन्तः । द्वितीयादिनिर्दिष्ट पत्नी संस्कारोऽयं प्रतिपरत्यावर्तते । पूर्णपात्रधारण- मेकस्या एवाऽऽप्यायनार्थत्वात् ।

आपो देवीरिति चात्वालेऽपोऽवनयति ।

पूर्णपात्रमता अपो मन्त्रेण किंचिनिक्षिपति । द्वितीयानिर्दिष्टा आपः संस्कार्या एव । भूयास्मेत्यन्तः । शुद्धा वयमिति संस्कारत्वावगीतमन्त्रलिङ्गादतः प्रतिपरिन ।

प्रतिषिद्धमेकेषाम् ।

अपामवनयनं विहितप्रतिषिद्धत्वाद्विकरूपते ।

एतेनैव सर्वे समुत्क्रम्य चात्वाले मार्जयन्ते ।

एतेन मन्त्रेण चात्वालप्रदेशे स्थित्वा मानयन्ते । एवकारेण सर्वो मन्त्रो मार्जन भाप्यायनसमुत्क्रमणे च विनियुक्तः । भरद्वाजेनोवामित्यन्तः समुत्क्रमणे शुद्धा वय- मित्यादिौन उक्तस्तन्मा भूदिति तथोक्तं नो चेदानक्यमेवकारस्य । एतेनैव सर्वेण सह समुत्क्रम्यतेनैव मार्नयन्त इत्यन्वये सत्येवकारः सार्थकः । संभूय संजप्तपशोः सकाशावुत्क्रम्य निर्गत्य चात्वालमागत्य मानियन्ते सपत्नीका इति भरद्वानः ।

अध्वर्युरभिषिञ्चति पत्न्याप्याययति पत्न्यभिषिञ्चत्यध्वर्युराप्याययतीत्येकेषाम् ।

ततस्थानमविलक्षाविवा(या)पः प्रतिपति । प्रतितोदकस्थानाभिमर्शनमाम्यायनम् । तं पराधान्यकेन क्रियेन्निति मुख्यवाभिषेचनमाप्यायनं करोति ।

वाक्त आप्यायतामित्येतैर्यथारूपम् ।

अभिषेचनं तूष्णीमाप्यायनं मन्त्रेण । यथा यस्य मन्त्रस्य रूपमर्थास मन्त्रस्तस्यार्थ- स्याऽऽप्यायने विनियोक्तव्यः । तत्र चत्वारि स्पष्टानि । या त इति हृदयदेशमित्याप- स्तम्बो ग्रीवामिति भरद्वानः। यत्ते क्रूरमिति भिन्नमन्त्रेणाङ्गानीति भरद्वाजकात्यायनौ ।

  • तमिति सर्व पुस्तकेषु विद्यते परं तु असंबद्धत्वात्प्रामादिकमिति हेयम् ।

१८. ग. लन्मना । १ क न, ट, 'क्यार्य । ३ घ. छ, ज. झ. म. द. 'माणाम।