पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४सपटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४२३

इह पशवो विश्वरूपा रमन्तामग्निं कुलायमभि संवसानाः । अस्माꣳ अवन्तु पयसा घृतेन । । यासामूधश्चतुर्बिलं मधोः पूर्णं घृतस्य च । ता नः पयस्वतीः सन्त्वस्मिन्गोष्ठ ऋतावृध इति पृषदाज्यमवेक्षमाणौ वाग्यतावासाते यजमानोऽध्वर्युश्च ।

पृषदाज्यं स्थालीगतम् । अत्र यानमान स्वदिसि स्वत्वेत्यादि । स्पष्टमन्यत्

इन्द्रस्य भागः सुविते दधातनेमं यज्ञं यजमानं च सूरौ । यो नो द्वेष्ट्य त तꣳ रभस्वानागसो यजमानस्य वीरा इत्यध्वर्युः पशुमभिमन्त्रयते यदि रौति ।। ११ ।।

इति सत्याषाढहिरण्यकेशिसूत्रे चतुर्थप्रश्ने तृतीयः पटलः ।। ३ ।।

रौति संज्ञप्यमानः शब्दं करोति । नैमित्तिको मन्त्रः । । इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेव कृतायां प्रयोग- वैजयन्त्यां चतुर्थप्रश्ने तृतीयः पटलः ॥ ३ ॥


4.4 अथ चतुर्थप्रश्ने चतुर्थः पटलः ।

यत्पशुर्मायुमकृतेति संज्ञप्ते जुहोति ।

पशी संज्ञसे गतासौ मति । तहस इत्यनः ।

शमितार उपेतनेति संज्ञप्तमुपायन्ति ।

बहुवचनात्सर्वे: प्युलिनो यजमानश्चोप पशुपं[]नमागच्छन्ति । परीत्यन्तः ।

अदितिः पाशं प्रमुमोक्त्वेतमिति पशोः पाशं प्रमुच्यैकशूलयोपसज्ज्य चात्वालेऽवदधाति ।

करोगीत्यन्तः । कण्ठे यया पशुव॑द्धः पाशेन तं पाशं निःसार्य तां रशनामेक- छया वपाश्रपण्योपतउज्य गृहीत्वा चात्वालेऽवदधाति तूष्णीं निदधाति विमोचने मन्त्रों लिङ्गात् ।

अभिचरतोऽरातीयन्तमधरं कृणोमीति शुष्के स्थाणौ दर्भस्तम्बे वाऽभिनिदधाति ।

पाशमित्यन्तः । मन्त्रेण निदधाति । दर्भस्तम्बेऽपि शुष्क एव । वैरिणो मरणं कामयमानस्य यजमानस्य । १ क, ख, ग, च. छ. ज. स. म. द. द. ग. वक्ष्यमा । २ ख. ग. छ. ग. ज्ञप्तमा ।