२४० पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।
पशुपतेः पशवो विरूपाः सदृशा उत । तेषां यं वव्रिरे देवास्तꣳ स्वराडनुमन्यतामिति वा मध्ये पञ्चमीं जुहोति ।
प्रमुच्चमाना इत्येतस्य विकलाः।
अग्नेर्जनित्रमसीत्यधिमन्थनशकलमादायापरेणाऽऽहवनीयं बर्हिषि निदधाति ।
अधिकृत्य मय्या येन शकलेन तत्तथा । बहिषि स्तोगें।
वृषणौ स्थ इति प्राञ्चौ दर्भौ शकलेऽवदधाति ।
निहिते त्वधिमन्यनशकले कौचिद्दी स्थापयति । शकलसंस्कारोऽयमुपाकरण- बहिषोरन्यत्र विनियोक्ष्यमाणत्वात् ।
उर्वश्यसीत्यधरारणिमादत्ते पुरूरवा इत्युत्तरारणिम् ।
संस्कृते तयोरेव बुद्धिस्थत्वात् ।
घृतेनाक्ते इत्याज्यस्थाल्या बिलेऽनक्ति ।
अपूर्वाज्यनिवृत्तये चाऽऽज्यस्थाल्या इत्युक्तम् । नुवादीनां ग्रहणनिवृत्तये बिल इत्युक्तम् । अरणी सहैवाऽऽज्यस्थाल्या बिल एवानत्ति न धारयेति वक्तुं बिल इत्य- धिकरणोपादानम् ।
आयुरसीति समवदधाति वृषणं दधाथामिति वा ।
अरणी एकत्र संनिधापयति । अरणी समवधायेति भरद्वाजः ।
अग्नये मथ्यमानायानुब्रूहीति संप्रेष्यति मथ्यमानायानुब्रूहीति वा ।
गतम् ।
त्रिरनूक्तायां गायत्रं छन्दोऽनुप्रजायस्वेत्येतेस्त्रिः प्रदक्षिणमारभ्य यथासुखमत ऊर्ध्वं मन्थति ।
एतरिति म अत्रित्वे च क्रमेण प्रतिमन्नं प्रदक्षिणं प्रदक्षिणमारम्मं कृत्वा ततो यथा. सुखं प्रदक्षिणमप्रदाक्षिणं च मन्थति । मन्त्रत्रित्व करणानुषङ्गत्रैष्टुभं छन्दाऽनुप्रनायस्वेति प्रथमायां त्रिस्नूक्तायाम् ।
जातायानुब्रूहीति ।। ९।। जाते संप्रेष्यति प्रह्रियमाणायानुब्रूहीति प्रह्रियमाणे ।
गतम् । १५द विश्व । २..ज.स. भ. ढ, लेसन'। ५३