पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्तृ०पट:] . महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

यदि कामयेत वर्षुकः पर्जन्यः स्यादित्यवाचीमवोहेत् ।

सत्यां कामनायामेव तथा संकल्प्याधस्ताकुर्यान्नान्यथा । वर्षको दृष्टिप्रदानशीलः ।

यदि कामयेतावर्षुकः स्यादित्यूर्ध्वामुदूहेत् ।

अवृष्टी सत्यां पूर्ववदेव ।

यं कामयेत स्त्र्यस्य जायेतेत्युपान्ते तस्य व्यतिषज्य न प्रवेष्टयेद्यं कामयेत पुमानस्य जायेतेत्यान्तं तस्य प्रवेष्ट्य स्थविमदणीयसि प्रवयति ।

अस्य यनमानस्य रूपपत्यं भवस्विति यः कामयतेति निन्दया न तथा कार्यमि- स्यर्थः । उपान्ते यूपे त्रिवेष्टितरशनायाः कृतग्रन्थे? मूलाग्रभागाववशिष्टौ तयोरुपान्ते द्वयोर्वेष्टनमकृत्वा परस्परं चाभी मेलयित्वोत्सर्गो व्यनिषङ्गः स न कर्तव्य इत्यर्थः । शास्त्रान्तरप्रसस्य निन्दयोत्तरस्तुतियं कामयेत पुमानस्येत्येतन्नित्यं काम्यं चैतत् । प्रवे- ष्टनमेकैकस्य प्रत्येक ततोऽवशिष्टान्तौ स्थविमदणीयसि प्रवयति स्थविष्ठं स्थूलं भाग मूलभागमणियास सूझे प्रवेशयति ।

दिवः सानुरसीति स्वरुमादत्ते दिवः सूनुरसीति वा दिवः सानूपेषेति वाऽन्तरिक्षस्य त्वा सानाववगूहामीत्युत्तरेणाग्निष्ठां मध्यमे गुणे स्वरुमुपगूहत्युत्तमे वा ।। ८ ।।

इति सत्याषाढहिरण्यकेशिसूत्रे चतुर्थप्रश्ने द्वितीयः पटलः ।। २ ।।

अमिष्ठावेरुत्तरभागे गुणयपयोर्मध्ये प्रवेशयति । स्पष्टमन्यत् । इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायो महादेवकृतायां प्रयोगवैजयन्त्यां चतुर्थे पशुप्रश्ने द्वितीयः पटलः ।।


4.3 अथ चतुर्थप्रश्ने तृतीयः पटलः ।

उपक्लृप्तः पशुरकूटोऽकर्णोऽकाणोऽखञ्जोऽखण्डोऽषण्ढोऽघृष्टोऽश्लोणोऽसप्तशफः पन्नदञ्छागो यमान्यतरो यूथ्यो मातृमान्पितृमान्भ्रातृमान्सखिमाꣳस्तꣳ स्नापयति ।

पूर्वमेव तत्रारम्भादुपकृप्तः । पशुरिति सामान्यनिर्देशेऽपि च्छागस्य वपाया इत्यादि. क. स. ग. च. छ. ट. 6. . बजेदी । २ ष. ज.म. म. द. "ति शकलमा । ३. क. ज. इ. स. इ. रुमवर । ४ क, तर वा । ५ ष दुः, ज, झ, ज. स. नापयित्वा ।