सत्याषाढविरचितं श्रौतसूत्र- [४ चतुर्थप्रो-
अग्निं प्रत्युपनतं बहिष्ठे निर्णुनमनाविरुपरं संमिनोति ।
': अग्निमाहवनीयं प्रत्युपनतं ननं बहिमांगे निर्णतमनुतमनम्रपनाविरप्रगट उपरो यस्येति तादृशं संमिनोति सभ्यगवस्थापयति ।
ब्रह्मवनिं त्वेति प्रदक्षिणं पुरीषेण पर्यूहति ।
पुरोषेणावटखननमृदा परितः पूरयति । पहामीत्यन्तः ।
ब्रह्मदृꣳहेति मैत्रावरुणदण्डेन परिदृꣳहति ।
पुरोषं दण्डमूलेनाधस्ताद्गमयति यतीति यावत्पोषं दृश्हेत्यन्तः ।
उन्नम्भय पृथिवीमिति प्रदक्षिणमपोऽनु परिषिञ्चति ।
दृतिमित्यन्तः । खातमनु यूपस्य परितः प्रदक्षिणं सिञ्चति ।
देवस्य त्वेति त्रिगुणां त्रिव्यायामां दार्वीꣳ रशनामादाय ।
आदद इत्यन्तः । त्रिभिर्गुगैनिमिता दर्भमी प्रसारितयोहियोर्मध्ये यावान्विस्तार- स्तत्प्रमाणाम् ।
इदं विष्णुर्विचक्रम इति सरशनेन पाणिना यूपं त्रिरुन्मार्ष्टि ।
गृहीतरशनायुक्तेन हस्तेनोवं सकृन्मन्त्रेण द्विस्तूष्णी माटें । सुर इत्यन्तः ।
तद्विष्णोः परमं पदमिति यूपस्याग्रं प्रेक्षते ।
चपालादधिकमूर्ध्वस्थितम् ।
यूपाय परिवीयमाणायानुब्रूहीति संप्रेष्यति परिवीयमाणायानुब्रूहीति वा ।
स्पष्टम् ।
परिवीरसीति तया नाभिदेशे त्रिः प्रदक्षिणं परिव्ययति मध्ये वा ।
मनुष्या इत्यन्तः । वेष्टयति नाभिपरिमिते देशे यूपं मध्ये यूपस्य वा ।
उत्तरमुत्तरं गुणं करोति ।
वेष्टयन्प्रथमवेष्टनादुपरि द्वितीयं तदुपरि तृतीयं गुणं रशनावेष्टनस्य ।
यं कामयेतोर्जैनं व्यर्धयेयमित्यूर्ध्वां वा तस्यावाचीं वाऽवोहेत् ।
यजमानमूर्जा वियोगं नयेयमिति योऽध्वर्युः कामयेत तस्य यजमानस्य यूपरशनाना- भिदेशे भध्ये वा परिवीतामा सादयेदधस्ताद्वा प्रतिषेधार्यमवाद(वाहन())मनेकॉर्थ- मित्यर्थः। १ क. ज. दिष्ठां नि । स. 'हिंष्टौ नि । ग. म. ठ. ण. 'हिंछो नि । इ. ट. हिष्टान्नि । चछ, द, विष्टानि । झ. हिष्टां नि । २. र. ज... उ.द.मि...म. ब, नाभिदन्ने । ४ प्र.ठ, ण, 'मर्थवा'। ५ ग, ८. ण, कार्थः ।