४१२ सत्यापाढविरचितं श्रौतसूत्र- [४ चतुर्थप्रश्ने- यवयुक्ताः प्रोक्षणामपः कृत्वा न संस्कारः। स्पष्टम् । शिषभूता अपोऽपटे' इत्येव भरद्वाजः।
यवोऽसीति यवं प्रास्यति पितॄणांꣳ सदनमसीति प्राचा बर्हिषाऽवस्तृणाति ।
यवप्राप्तनं बहिषाऽवस्तरणं च खात एव । उदगग्रत्वनिवृत्तये प्राचेति । यवोऽसी. त्यस्यारातीरित्यन्तः।
स्वावेशोऽसीति प्रथमपरापातितꣳ शकलमधस्तात्वक्कमवटेऽवदधाति घृतेन द्यावापृथिवी आपृणेथाꣳ स्वाहेति हिरण्यमन्तर्धाय स्रुवेणाभिजुहोति ।
स्वाहाकारान्तो मन्त्रोऽन्यशाखीयोऽस्मच्छाखायामिहाश्रवणात् । दविहोमस्वाज्जु- हप्राप्तौ सुवेणेति वचनादितरधर्मनिवृत्तिः । हिरण्यं शकलेऽन्तर्धाप तत्राभिहोम आग्य- स्थाच्याज्येन द्यावापृथिन्यौ देवते । वित्तादिति स्वावेश इत्यस्यान्तः ।
यूपायाज्यमानायानुब्रूहीति संप्रेष्यत्यज्यमानायानुब्रूहीति वाऽग्रेणाऽऽहवनीयं लौकिकेनाऽऽज्येन पुरस्तात्प्रत्यङ्तिष्ठन्यजयानो यूपशकलेनानक्ति ।
आध्वर्यवे याजमानविधानं विकल्पार्थ तथैव कात्यायनभरद्वाजाभ्यामुक्तम् । अमे. णाऽऽहवनीयं विद्यमान यूपं तस्य पुरस्तादागे प्रत्यङ्मुखस्तिष्ठन्यजमानो यूपशकलेन साधनेन हस्तेन ।
लौकिकेनेति ।
जातिवाचिशब्देनोभयमा गच्छति तत्राऽऽज्यं स्थालीगतं मा मूदिति लौकिकेनेत्यु: क्तम् । अञ्जनकर्मणः प्राकृत्वाभावादहोमत्वाच्च लौकिकेनेति गम्यते । होमस्तु यद्यप्य- यमप्राकृतस्तथाऽपि होमत्वेनाऽऽहवनीयाश्रयत्वेन च स्थाल्याज्येन । अञ्जनीयं कर्म न निर्दिष्टं तत्वयं चषालं चानक्ति चषालं प्रतिमुञ्चति स एवाधिकारात् ।
देवस्त्वा सविता मध्वाऽनक्त्वित्यग्रमैन्द्रमसीति चषालम् ।
अनक्तोत्यनुवर्ततेऽयं यूपस्य चषालं सर्वतः
सुपिप्पलाभ्यस्त्वौषधीभ्य इति चषालं प्रतिमुञ्चति ।
प्रतिमुञ्चत्यग्रे यूपस्यावदधाति । एतदन्नं याजमानमधवा प्रतिमोचनमध्वयोर्यजमानोऽ. नतीत्येव विधानादित ऊर्ध्व त्वञ्जनमध्यध्वयोरेव । यजमानमेव तेनसाऽनक्तीति यन- मामातिरिक्तस्य वाक्यशेष कर्तृत्वनिर्देशात् । ११. छ.ट. नवन । ख. ग. छठाण, 'बाविका। .. ! ।