२द्वि०पटळ:]: महादेवकृतवैजयन्तीष्याख्यासमेतम् । ४११
ज्योतिरसि विश्वरूपं विश्वेषां देवानाꣳ समिदिति पञ्चगृहीतं पृषदाज्यं गृह्णाति महीनां पयोऽसीति वा ।
मन्त्रद्वयविधिना वा कृतमत्र या मन्त्रावृत्तिश्चान्यतरस्य ।
यथाप्रकृति ध्रुवायाम् ।
क्रमार्थमनुवादः ।
सन्नेष्वाज्येषु यूपसंमानेन प्रतिपद्यते ।
वेद्यास्तरणानन्तरं प्लक्षशाखास्तरणं दक्षिणोण्याम् । तथोक्तं कात्यायनीये बहिषि पक्षशाखा स्तृणाति यूपसंमानेनोपलक्षितं कर्म पूर्व च तत्करोतीत्यर्थः । तदाऽऽह-
देवस्यत्वेत्यभ्रिमादाय परिलिखितमिति त्रिःप्रदक्षिणं यूपावटं परिलिखत्यर्धमन्तर्वेद्यर्धं बहिर्वेदि ।
कृन्तामीत्यन्तः । अवट इ(मि)त्येकत्वात्सकृन्मन्त्री द्विस्तूष्णी, समन्तादिति वक्तुं. प्रदक्षिणमिति । यूपावटो यूपार्थे गस्तं मध्याद्यावान्खननायाऽऽतस्तावन्तं रेखयातित करोति । महाद्या यथार्धे खातस्य वेद्या बहिश्वार्धे यथा तथा परिलिखति । भत्र वेदिर्धिस्याङ्गत्वेन विधीयतेऽपि तु वेदिदेशो लक्ष्यते । तथा च द्यात्मके देशे खात इत्येवान्यथा देशविधाने वेदेरङ्गत्वविधाने वाक्यभेदः स्यादतो देशलक्षणा । तेन प्रांच्या यूपैकादशियां न वेद्याममिति फलम् ।
परिलिख्याग्नीद्यूपावटं खनोपरसंमितं द्व्यङ्गुलेन त्र्यङ्गुलेन चतुरङ्गुलेन वोपरमति खनतादिति संप्रेष्यति ।
समीयमानोऽवयव उपरशब्दवाच्योऽतस्तन्मानेऽवटे खाते ततोऽपि यशलायन्यत- ममानेनाधिको निम्नः । भग्नीद्यथाप्रैषं करोति ।
उपरमात्रं खात्वा ।। ६ ।।
अग्नीधपार्थ खात्वा ।
यत्ते शिल्पः परावधीत्तक्षा हस्तेन वाश्या । आपस्ते तद्यज्ञियाः पुनन्तु शुचयः शुच इति यूपं प्रक्षालयति ।
स्पटम् ।
यवमतीः प्रोक्षणीः कृत्वा पृथिव्यै त्वेति मूलं प्रोक्षत्यन्तरिक्षाय त्वेति मध्यं दिवे त्वेत्यग्रꣳ शुन्धतां लोकः पितृषदन इति यूपावटेऽपोऽवनयति ।
पवितक। . ।