पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०७ द्वि०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

उपक्लृप्ताः संभारा गुग्गुलुसुगन्धितेजनं शुक्लोर्णास्तुका पेत्वस्यान्तराशृङ्गे या ।

'पूर्वमेव संपादिताः संभाराः संधियतेऽग्नियस्ते । गुग्गुलुधूपपाठः । गुग्गुस्विति भाषा याम् । सुगन्धितेजनमिति तृणविशेषो यस्तिक्तत्वान्न पशुभिर्भक्ष्यते । शुक्ला चासा- पूर्णा स्तुका चेति स्तुका छिन्नारूढोर्णैव पेत्वस्य गतपुंस्कस्य भेषस्य शृङ्गयोर्मध्ये योत्पन्ना। पैत्वो वृष्णिरेवेति कात्यायनः । स्तुकामस्य च्छिन्नां छिन्नस्तुकस्येत्येकेषामिति भरद्वाजः।

तानग्नेर्भस्मासीति सकृदेवोत्तरनाभ्यां निवपति ।

तासंभारान् । मन्त्रेऽनेर्भस्मास्यग्नेः पुरीषमसीत्येकवचनश्रुतेर्गुम्गुरुवादिशः प्रत्येक मिन्नद्रव्यत्वात्प्रतिसंपारमाधाने मन्त्रदर्शनाच तथा प्राप्तमुक्तं सकृविति संभारशने नैव विधानादेकदव्यत्वादोर्खेत्पुरीषं यत्संभारा इत्येकवचननेन बहूनां सामानाधिकर. ण्यान्नाभ्यास इत्यर्थः ।

ऊर्णावन्तं प्रथमः सीद योनिमित्युच्यमाने यज्ञ प्रतितिष्ठ सुमतौ सुशेवा आ त्वा वसूनि पुरुधा विशन्तु । दीर्घमायुर्यजमानाय कृण्वन्नथामृतेन जरितारमङ्धि यज्ञः प्रत्यष्ठादिति संभारेषु प्रतिष्ठापयति ।

उच्यमाने होत्रा तं दीप्तमिध्मं न्युप्तेषु समारेषु प्रतिष्ठापयति मन्त्रेण ।

अग्नेः कुलायमसीति दक्षिणत उपयमनीरुपनिवपति ।

उपयमनीः सिकता अग्निसमीपे निवपति ।

मनुष्वत्वा निधीमहि मनुष्वत्समिधीमहि । अग्ने मनुष्वदङ्गिरो देवान्देवायते यजेत्युपसमिन्धे ।

अमिं काष्ठेन ।

अग्निर्यज्ञं नयतु प्रजानन्मैनं यज्ञहनोऽविदन् । देवेभ्यो यज्ञं प्रब्रूयात्प्रप्र यज्ञपतिं तिर स्वाहा वायुरादित्यो यज्ञो यज्ञं नयतु प्रजानन्मैनं यज्ञहनोऽविदन् । देवेभ्यो यज्ञं प्रब्रूतात्प्रप्र यज्ञपतिं तिर स्वाहेति चतसोऽतिमुक्तीर्हुत्वा ।

अतिमुक्तिसंज्ञिका आहुतीर्वायुर्यज्ञमित्यादि तथाऽऽदित्यो यज्ञमित्यादि मध्ययो. रप्यनुषङ्गेण स्वाहान्ताभ्यां मन्त्राम्यां दविहोमधर्मेण जुहोति ।

१ ग. प.क. ज. स. प. म. द. . 'शृङ्गीया ।