पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०६ सत्यापाढविरचितं श्रौतसूर्च- [४ चतुमने-

त्रिरनूक्तायाꣳ हरत्युत्तरवेदिं प्राप्य जुह्वां पञ्चगृहीतं गृहीत्वा हिरण्यमन्तर्धायाक्ष्णयोत्तरवेदिं व्याघारयति ।

त्रिरनूक्तायां प्रथमायामिति ज्ञेयम् । ऊर्णावन्तं प्रथमः सीद योनिमित्यने वक्ष्यमां- णत्वान्न परिधानीयायां प्रथमायामित्येवाऽऽह मरद्वाजः । हरति तमग्निमुत्तरवैदिसमीप प्राप्येति पाठप्राप्तस्य पुनर्वचनं कात्यायनादिभिर्यदुक्तं पञ्चगृहीतं गृहीत्वाऽनिं प्रणय- तीति तन्मा भूदित्येवमर्थम् । जुहामिति वचनं जुहोतिबोदनामावे स्वाहान्तमन्त्रपाठेऽपि नं दर्विहोम इति स्पष्टयितुं हिरण्यं सुवर्णमन्तर्धाय यत्र यत्र व्याधारयति तत्र तत्रे. त्यर्थों नतु खुच्यवधानमन्तर्धानं हि स्थलाज्ययोर्मध्ये व्यवधानं कोणाकोणपर्यन्तं तु प्राङ्न्यायादिना।

सिꣳहीरसि सपत्नसाही स्वाहेति दक्षिणेऽꣳसे ।

नाम्यतिरिक्तोऽसस्तत्र नाभिलग्नकोणमारम्याग्निकोणपर्यन्तमक्ष्णयेति वचनादन्य. त्राप्येवम् ।

सिꣳहीरसि सुप्रजावनिः स्वाहेत्युत्तरस्याꣳ श्रोण्याम् ।

वायव्यकोणमारम्य नाभिवायव्यकोणपर्यन्तम् ।

सिꣳहीरसि रायस्पोषवनिः स्वाहेति दक्षिणस्याꣳ श्रोण्याम् ।

तकोणमारभ्य नामिकोणपर्यन्तम् ।

सिꣳहीरस्यादित्यवनिः स्वाहेत्युत्तरेऽꣳसे ।

नाभिकोणमारम्येशानकोणपर्यन्तम् ।

सिꣳहीरस्यावह देवान्देवयते यजमानाय स्वाहेति मध्ये ।

नामरतकोणमारम्वेशाननापिकोणपर्यन्तं तत्र तत्र हिरण्यान्तर्धानपूर्वकं सर्वत्रो तखेदिर्देवता तेम्य उत्तरवेदिरित्युपकन्य तस्मादुत्तरवाद पूर्वाभग्नाधारयन्तीति श्रुतेः ।

भूतेभ्यस्त्वेति स्रुचꣳ हिरण्यं चोद्गृह्य ।

उपयुक्तप्रतिपत्तिरतो विशेषनिर्दिष्टयोर्मन्त्रावृत्त्यैवोद्गृह्मोतिप्याप्राप्तत्वाद्विपिरनु- मेयः । य एव देवा भूता इत्याद्यर्थवादेन च देवतात्वं स्वाहाकारेण दानामावात् ।

पौतुद्रवैः परिधिभिः परिदधाति ।

पौतुदुर्देवदारुः । औदुम्बर इति केचित् । मानं वेदेर्यथा परिधीनां परस्पस्योगो यथा स्यात्तावन्मानम् ।

विश्वायुरसीति मध्यमं ध्रुवक्षिदसीति दक्षिणार्ध्यमच्युतक्षिदसीत्युत्तरार्ध्यम् ।

परिदधातीत्यनुकृष्यते । दृश्हेति मन्नान्तः ।