पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 ४०८ सत्यापाठविरचितं श्रीतसूत्र- [ ४ चतुर्थप्रो-

जुहूꣳ स्रुवं च संमृज्य चतुर्गृहीतेनाष्टगृहीतेन द्वादशगृहीतेन वा स्रुचं पूरयित्वा सप्त त इति पूर्णाहुतिं जुहोति ।। ५ ।।

अपूर्वत्वाद्धोमस्यापूर्व संमार्गविधानं, पूरयित्वेति वचनावादशगृहीतेनाष्टगृहीतेन चतुर्गीहोतेन वा यथा पूर्णा भवति तथा गृह्णातीत्युक्तम् । पूर्णया चाऽऽहुतिः पूर्णा- हुतिरितिसंज्ञानिर्वचनात् ।

एषोऽत्राऽऽहवनीयो यतः प्रणीयते स गार्हपत्यः ।

पत उत्तरवेद्यां प्रणीय पूर्णाहुत्यन्तेन संस्कृतः सोऽत्र पशुबन्ध एव नाग्निहोत्रहोम आहवनीयकार्यकरो यतः प्रणोयते सोऽत्र गार्हपत्यो नाग्निहोत्रे । तथा च कालेऽग्नि- होत्रं कर्तव्यं तत्रमध्येऽपि तच्च प्राकृतेष्वेव नतूतरवेविस्थे भरद्वाजेनात्र विकल्प उक्तः संस्थिते पशुबन्धे काले वेति, तन्निराकृतम् ।

आहवनीयं गार्हपत्यं दक्षिणाग्निं चान्वाधायेध्माबर्हिराहरति ।

अतिदेशप्राप्तस्यानुवादोऽयं क्रमार्थ परमतव्यदासार्थ च ।. अन्वाधान देवतापरि- महार्षमुक्तमिष्या देवतापरिग्रहसिद्धौ न वचनमस्ति तस्मान्नान्वाधानसिद्धिः । तथा च भरद्वाजः- -न पश्विष्टचामग्निं गृह्णीयादित्यपरमिति । दीक्षणीयायां हि वचनाद्देवताप. रिग्रहार्थता । प्रत्येकग्रहणं तु प्राजिहितेऽन्वाधानाभावप्रदर्शनार्थम् । इष्टयाऽऽन्वाधान. सिद्धिः सानाच्यविकारत्वाच्छाखाहरणं सूत्रान्तर उक्तं तन्मा भूदिति वक्तुमन्वाधाये. ध्माबहिरेवाऽऽनयति । द्रवद्रव्यं हि शाखया शोधनीयं न मांस तयाऽस्मिन्नविद्यमाने सह धर्मद्रव्यं निवर्तत इत्युक्तत्वात् । व्रतग्रहणपूर्वकं वेदस्य पूर्वमेव कृतत्वान्नाप्यत्र प्लक्षशाखाहरणं तस्य न प्रकृतशाखार्थेनार्थोऽपि तु विकृतावुपदेशनास्मरणार्थ ततस्तु बहिराहरणानन्तरमेवाऽऽनयति नतु तस्या आनयनविधिरस्ति बहिरर्थे विधानाना- मावात् । प्रायौगिकास्तूष्णीमानयन्ति आनयन एव वा प्राप्ते कुतस्तूष्णीमिति बर्हि । प्राकृतमेव नत्वग्नीषोमीयविकारत्वादिक्षुशलाके अपि ।

सप्तदश सामिधेन्यो न परिधीनिध्म उपसंनह्यति ।

वाचनिकं निरूढे सप्तदशत्वं विकृतौ तु विकल्प इत्येकः पक्ष उक्तोऽत्र तु निय. तमेव समिधो वर्धन्त इत्युक्तं परिधिकार्य पशौ ह्याग्निभ्रातृत्वसंस्तवाद्दृष्टार्थोऽयमुत्तरखे. दिसंस्कारस्तथाऽपि प्रसङ्गेन रक्षसामपघातलक्षणोऽदृष्टसंस्कारोऽप्येभिः कर्तुं शक्यते परिधिशब्देन विधानाच्चातोऽन्ये प्राकृता निवर्तन्ते । ततस्त्वां विशतिधेत्यूहः । त्रीपरिधोनिति लुप्यते । यज्ञायुरनुसंचरानित्युपवेषधृष्टिशब्दविवक्षया पुंस्त्वं तद्दर्शित- मेव पूर्वम् । १च. प्रकृ ।