पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७० पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

पुनर्देहीत्याहवनीयमुपस्थायाभ्यपान्याग्ने सहस्राक्षेत्युपतिष्ठते प्रजां मे नर्याजुगुपस्तां मे पुनर्देहीति गार्हपत्यमुपस्थायाभ्यपान्याग्ने गृहपत इत्युपतिष्ठतेऽन्नं मे बुध्न्याजुगुपस्तन्मे पुनर्देहीति दक्षिणाग्निमुपस्थायाभ्यपान्याग्ने वह्न इत्युपस्थाय विराजक्रमैरुपतिष्ठते यथा पुरस्तादिमान्मे मित्रावरुणा गृहानजुगुपतं युवम् । अविनष्टानविहृतान्पूषैनानभ्यपराक्षीदास्माकं पुनरागमादित्यन्तराऽग्नी तिष्ठञ्जपति गोपायाजुगुप इति सर्वत्रानुषजति गोपायेति वा ।

सष्टम् ।

अथैकेषां विज्ञायते कः श्रेयाꣳसं विषुप्तं बोधयिष्यतीत्यप्रादुष्कृतानामेवोपस्थानꣳ स्यादभयंकराभयं मे कुरु स्वस्ति मेऽस्तु प्रवत्स्यामीति प्रवत्स्यन्नभयंकराभयं मेऽकार्षीः स्वस्ति मेऽस्तु प्रावात्स्यमिति प्रोष्य ॥ २३ ॥ गृहा मा विभीत मा वेपीढ्वमूर्जं बिभ्रत एमसि । ऊर्जं बिभ्रद्वसुवनिः सुमेधा गृहानेमि मनसा मोदमानः । येषामभ्येति प्रवसन्येषु सौमनसो बभुः । गृहानुपह्वयामहे ते नो जानन्तु जानतः । उपहूता इह गाव उपहूता अजावयः । अथो अन्नस्य कीलाल उपहूतो गृहेषु नः । उपहूता भूरिसखाः सखायः स्वादु संमुदः। अरिष्टाः सर्वपूरुषा गृहा नः सन्तु सर्वदा । ऊर्जस्वन्तः पयस्वन्त इरावन्तो ह सामुदः । अनश्या अतृष्या गृहा मास्मद्बिभीतनेति गृहानभ्येति क्षेमाय वः शान्त्यै प्रपद्ये शिवꣳ शग्मꣳ शंयोः शंयोरिति प्रविशति न तदहरागतः कलहं करोति गृहानहꣳ सुमनसः प्रपद्ये वीरघ्नो वीरतमः सुशेवान् । इरां वहन्तः सुमनस्यमानास्तेष्वहꣳ सुमनाः संविशामीति संविशति विश्वा उत त्वया वयं धारा उदन्या इव । अतिगाहेमहि द्विष इति भार्याꣳ समीक्षते ॥ २४ ॥

इति सत्याषाढहिरण्यकोशिसूत्रे षष्ठप्रश्ने सप्तमः पटलः ॥७॥

स. म. द. "रुणी गृ । २ च. द. पायरिवति । ३ क. ग. क. ८, ण, बारवतः ।