पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१ षष्ठप्रश्ने- सत्याषाढविरचितं श्रौतसूत्र-..

नष्टानविहृतान्पुषैनानभिरक्षत्वस्माकं पुनरागमादित्यन्तराऽग्नी तिष्ठञ्जपति मा प्रगाम पथो वयं मा यज्ञादिन्द्र सोमिनः । मां तस्थुर्नो अरातयः । उदस्माꣳ उत्तरान्नयाग्ने घृतेनाऽऽहुत । रायस्पोषेण सꣳसृज प्रजया च बहून्कृधीति प्रक्रामति सकाशेऽग्नीनां वाचं यच्छत्यसकाशे विसृजते व्रतकालेषु व्रतं चरति ।

उद्धरणप्रभृति नाश्नीयादाहोमादित्यादिवतं विद्युदसीत्याद्यपि यजमानसंस्कारो जपश्चेडाऽसीति हविर्देवानामिति चोपस्थानानि च दर्शपूर्णमासवत्सर्वं ज्ञेयम् । उप- स्थाने समिदाधानमध्वर्युरेव । गवालम्भस्तु लुप्यते परार्थत्वात् । विहाराभिमुखो मन्त्रा. ञ्जपतीति सूत्रान्तरम् । तथाऽऽह भरद्वाजः-एवं विहितमेवास्य प्रवसतोऽप्युपस्थाने परिसंमृश्यं कर्माणि चाध्वर्युस्तानि कुर्याद्यजमानो मन्त्राजपेदिति ।

ऋतुं प्रत्युपतिष्ठते ।

प्रवासविलम्बे प्रत्युतु प्रवासोपस्थानं कुर्यान्मासद्वये मासद्वय इत्यर्थः ।

यद्यनुपस्थिताग्निरापद्यते प्रवासः ।

दैवान्मानुषाद्वाऽग्नीननुपस्थाय प्रवसति तदाऽग्रे वक्ष्यमाणमुपस्थानम् ।

इहैव सं तत्र सतो वो अग्नयः प्राणेन वाचा मनसा बिभर्मि । तिरो मा सन्तमायुर्मा प्रहासीज्ज्योतिषा वो वैश्वानरेणोपतिष्ठ इत्युपतिष्ठते ।

यत्र तिष्ठति तत्रैव विहाराभिमुखः । सकृदेव प्रत्येत्याभयंकरेणोपस्थानम् ।

प्रोष्य ।

प्रवासादागत्य।

समिधो धारयन्विश्वदानीमाभरन्तोऽनातुरेण मनसा । अग्ने मा ते प्रतिवेशा रिषामेति विहारमभ्येत्य सकाशेऽग्नीनां वाचं यच्छति सकाशे विसृजतेऽग्नीन्समाधेहीति संप्रेष्यति ॥ २२ ॥ ज्वलत उपतिष्ठते नमस्ते अस्तु मीढुषे नमस्त उपसद्वने । अग्ने शुम्भस्व तन्वा सं मा रय्या सꣳसृजेत्युपसमिन्धेऽग्नेः समिदस्यभिशस्त्या मा पाहीत्येतैस्त्रिभिस्तिस्रः समिध आदध्यादिन्धानास्त्वा शतꣳ हिमा इति चतुर्थी मनो ज्योतिर्जुषतामित्यध्वर्युराहुतिं जुहोति यदि दशमीमतिप्रवसति मम नाम तव च जातवेद इति चतसृभिराहवनीयं पशून्मे शꣳस्याजुगुपस्तान्मे