पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७स०पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् । ५४१ स्वस्तीत्यस्मात्पूर्वः पुत्राणां नामान्येकैकं त्रिरावर्तयेत्पूर्ववत् । तत्रापि विशे विश इत्य. स्मादनन्तरं पूर्वपक्षेऽग्नीषोमाविमश्सुम इत्यपरपक्ष उमा वामिन्द्राग्नी इत्युपस्थायायं ते योनिरिति अनुवाकशेषेणोपतिष्ठते । वर्माजठरान्नादामद्यास्मिञ्जने भूयासमननादास योऽस्मान्द्वेष्टि कवी मातारश्वा मापशुमन्तामामय ।

तस्मात्पुरा प्रातरग्निहोत्रे नोपावरोहेदित्येकेषाम् ।

अग्निहोत्रेऽपरानेः पुरतो नोदित्येकेषां शाखिना मते नोपस्थेय इत्यर्थः । केचिद्याजमानं सर्वमपि निवर्तत इति व्याचक्षते ।

अग्नेस्तृणान्यपचिनोति तेजस्वी ब्रह्मवर्चसी भवतीति विज्ञायते ॥ २१ ॥

इति सत्याषाढहिरण्यकशिसूत्रे षष्ठप्रश्ने षष्ठः पटलः॥६॥

अग्नेराहवनीयात्तृणानि परिस्तरणानि निर्गमय्य स्थापयतीत्यर्थः । विज्ञायते श्रुतौ । इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवैज- यन्त्यां षष्ठे याजमानप्रश्ने षष्ठः पटलः॥६॥


6.7 अथ षष्ठप्रश्ने सप्तमः पटलः ।

ऋते गृहस्य प्रवासं व्याख्यास्यामः।

विनाऽग्निमिया च प्रवासम् ।

अग्नीन्समाधेहीति संप्रेष्यति प्रवत्स्यन्भास्वत उपतिष्ठते मम नाम प्रथमं जातवेद इति चतसृभिराहवनीयं पशून्मे शꣳस्य पाहि तान्मे गोपायास्माकं पुनरागमादित्याहवनीयमुपस्थायाभिप्राण्याग्ने सहस्राक्षेत्युपतिष्ठते प्रजां मे नर्य पाहि तां मे गोपायास्माकं पुनरागमादिति गार्हपत्यमुपस्थायाभिप्राण्याग्ने गृहपत इत्युपतिष्ठतेऽन्नं मे बुध्न्य पाहि तन्मे गोपायास्माकं पुनरागमादिति दक्षिणाग्निमुपस्थायाभिप्राण्याग्ने वह्न इत्युपस्थाय विराजक्रमैरुपतिष्ठते यथा पुरस्तादिमान्मे मित्रावरुणा गृहान्गोपायतं युवम् । अवि-

१ च. शेषः । वि'। २ च. 'मादद्या' । ३ क. ग. च. ट. द. . स्मि जने । टीकापु' स्तकेषु °स्य पशून्मे पा' इति पाठः । ५ च. ढ. 'रुणौ ।