पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

T १५०पटल: ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ५३९ आयुख्यग्ने पवस्वाग्ने गृहपत इति तिमृमिर्गार्हपत्यमुपतिष्ठते तामाशिषममुष्मै बहुपुत्र. स्तामाशिषमाशासे देवदत्तशर्मणे ब्रह्मदत्तशर्मणे यज्ञदत्तशर्मणे ज्योतिष्मतीमिति । उपप्र. पन्त इत्येवमादिना ज्योतिष्मतीमित्यन्तेनोभयकालं प्राप्ते विकल्पः। सायं सायमुपति- छत इति अत्र सायं सायमिति सूत्रेण सायं सायमेवेत्यवधारणं सायमेवोपस्थानं न प्रातरित्युक्तम् । अत्र वाशब्दामावः श्रुत्यनुविधानात् । अग्निहोत्रं जुहोतीत्यविशेषे. जोपस्थान विधाय पुनर्नक्तमुपतिष्ठते न प्रातरिति विहितप्रतिषिद्धत्वाद्विकल्पः । एवं सूत्रेऽप्युभयत्र प्राप्तः पुनः सायमिति ग्रहणात्सायमेव न प्रातरित्यसिध्यतीति सायं नियतं प्रातर्विकल्पः। अत्रैवोपस्थान प्रातरत्राप्युपस्थानान्याह विकल्पेन-

अपि वा दिवैतत् ।

पक्ष्यमाणेषूपस्थानेषु दिवा विकल्पोऽपि वेत्यनेनोक्तः ।

भूर्भुवः सुवः सुप्रजाः प्रजया भूयासꣳ सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः पोषैरिति वा काममैन्द्रो वित्तादिति वा श्रद्धा मे मा व्यगादिति वा भर्तुं वः शकेयमिति वा ।

स्पष्टम् ।

तत्सर्वं कृताकृतम् ।

कालद्वयोपस्थानं कर्तव्यं न कर्तव्यं वेत्यर्थः । तथा च श्रुतिरुपस्थेयोऽमिरित्युपक्रम्य तस्मान्नोपस्थेय इत्युक्त्वाऽपि वदति तस्मादुपस्पेय इति विहितमतिषिद्धत्वादुपस्थाने विकल्पः । उपस्थानपक्षेऽपि महोपस्थानेन नक्तं भूरित्यादिचतुर्णामेकेन दिवोपस्थान न वा दिवेति नक्तमुपतिष्ठते न प्रातरहरुपतिष्ठत इति श्रुतयः प्रमाणम् । चतुर्मिः सह विकल्पान्तरमाह-

प्रातरवनेकेन प्रातरुपस्थेयः।

मातरवनेक इति कर्मनामधेय तद्गतैरेव मन्त्रैरुपस्थेयः । आहवनीयोऽनादेशे।

तत्राधिश्रित उन्नीयमाने वा।

भग्निहोत्रहविष्यधिश्रिते वोन्नीयमाने वाऽये वक्ष्यमाण कार्यमित्यर्थः ।

विहव्यस्याऽऽदितश्चतसृभिरुपस्थाय ।

ममाने वर्च इत्यादिभिराहवनीयमुपस्थाय ।

अपां पत इति त्रीनुदकाञ्जलीन्निनयति प्रतिषिक्ता अरातय इति त्रिः परिषिञ्चति कालाय वां जैत्रि

१च. 'शिर्ष व्यात् । तामाः सेऽमु १२ घ. द. वा यदे । ३ च. 'हरहरु ।