पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- 2 ५३८ सत्याषाढविरचितं श्रौतसूत्र- [१ षष्ठप्रश्न-

त्विति दिश उपस्थाय धर्मो मा धर्मिणः पातु विधर्मो मा विधर्मिणः पात्वायुश्च प्रायुश्च चक्षुश्च विचक्षुश्च प्राणश्चापानश्च प्राञ्चावाञ्चोरुग उरुगोऽर्कस्य ते वयं वाचा संभक्तेन गमेम ह्यच्छिन्नो दैव्यस्तन्तुर्मा मनुष्यश्छेदि दिव्याद्धाम्नो मा छित्सि मामायुषा ज्योतिषे तन्तवे त्वाऽसावनु मा ज्योतिषा तन्वित्यन्तराऽग्नी तिष्ठञ्जपत्यग्न आयुꣳष्यग्ने पवस्वेत्याग्निपावमानीभ्यां गार्हपत्यमुपतिष्ठतेऽग्ने गृहपत इति च तामाशिषमाशासे तन्तवे ज्योतिष्मतीमित्यजातपुत्रो ब्रूयात्तामाशिषमाशासेऽमुष्मै ज्योतिष्मतीमिति जातपुत्रो बहुपुत्रा सर्वेषां पुत्राणां नामान्यनुद्रुत्य ज्योतिष्मतीमित्यन्ततो वदति सायꣳ सायमुपतिष्ठते॥२०॥

उत्थाय । उत्तरस्या आहृत्याः समीपेऽनन्तरमेवोत्थाय स्वयं होमे प्राक्प्राशनात् । उपप्रयन्त इति षडचस्तैत्तिरीयके समानाताः । पैङ्गके तासां याऽग्नीषोमीया तां पञ्चमी कृत्वा षड्भिः पूर्वपक्ष उपतिष्ठते । ऐन्द्राग्नी पञ्चमी कृत्वा यथापाठं षड्भिरपरपक्षे यं त इत्यस्याः पुरस्ताद्विहव्यस्य . ममाग्न इत्यादि. तश्चतसभिरुपतिष्ठते । तासां विहन्यानामुपरिष्टादग्न भायूषि पवस इति षभिः प्रथमे गार्हपत्यमुपस्थाय संवत्सरे संवत्सरे तामिरुपतिष्ठते नान्तराले । केचिदाहुः षड्- मिरुत्तराभिरितिश्रुतेनित्यत्वाद्द्वादशभिरुपस्थानं नित्यं संवत्सरान्त आवृत्तिरिति, तत्र युक्त ग्राह्यम् । संवत्सर आमिपावमानीभिरुपस्थानस्य नियतत्वात्तस्य च पूर्वाभिः संव- न्धात्संवत्सरे संवत्सरे नियतं महोपस्थानं सर्वस्मिन्पक्षे कार्यम् । तत आयुर्दा वादा- स्तनूपा अग्न इति चतुर्मिराहवनीयमुपतिष्ठते । चतुर्थे मन्त्रे च यचित्रावसो स्वस्ति ते पारमशीयेति तद्विरावर्तयति । तदनन्तरं देवदत्तशर्मनस्वस्ति तेऽस्तु यज्ञदत्तशर्मन् स्वस्ति तेऽस्तु इति द्वितिरेकैकस्य नाम गृह्णाति । अग्नेः सोमस्य यमस्येन्धाना इति सर्वेष्वग्निषु समिध आधायोपतिष्ठते । अम्भस्थेति मनुष्यान्पशूनपि । रेवतीरिति गाई. पत्याहवनीययोमध्ये तिष्ठञ्जपति । सशहिताऽसोति गामग्निहोत्रीमालभते वसं वा यस्याः पयसा होमः । इदम्प त्वति तिस्रो गाययोऽसे त्वं न इति तिस्रो द्विपदः । ताभिः षड्भिर्गार्हपत्यमुपतिष्ठते । ऊर्जा व इति गोष्ठगतान्पशनुपतिष्ठते । भुक्नमसी- ति पूर्ववत् । महित्रीणामको अस्त्विति तृचेनाऽऽहवनीयमुपतिष्ठते । तत्सवितुर्वरेण्यं सोमानं योरेवान्यो मा नः शंस इति सावित्रिया ब्राह्मणस्पत्याभिश्वाऽऽहननीयमेवोप- तिष्ठते । कदाचन स्तरीरसि कदाचन प्रयुच्छसि परि वाऽग्ने परि ते दूढम इत्येतेना- नुक्रमेणाऽऽहवनीयमेवोपस्थायात्रैव तिष्ठन्पूषा मेति नपित्वा प्राची दिगिति यथालिङ्गं दिश उपस्थायान्तराऽनी तिष्ठन्धर्मो मेति जपति । अत्र ज्येष्ठस्य नामग्रहणम् । अग्न ,