पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

O ५३४. सत्यापाठविरचितं श्रौतसूत्र- [६षष्ठप्रश्न- रिति वाधूलः । अनन्तरे मुख्यकाल एवाऽऽरम्भः । उभा०दक्षिणा । परिवा ब्राह्मणम् । अनड्वान्दक्षिणेति श्रुत्यन्तरमितिमाष्यग्रन्थः ।

मिथुनौ गावावन्वारम्भणीयायां ददात्युभयीः पुनराधेय अग्न्याधेयिकीर्दत्त्वा पौनराधेयिकीर्ददाति पुनर्निष्कृतो रथः पुनरुत्स्यूतं वासः पुनरुत्सृष्टोऽनवाञ्शतमानं च हिरण्यं पुनराधेयस्य दक्षिणाऽपि वा पौनराधेयिकीरेव दद्यादिति पैङ्ग्यब्राह्मणम् ॥ १७ ॥

इति सत्याषाढहिरण्यकशिसूत्रे षष्ठप्रश्ने पञ्चमः पटलः ॥५॥

पुनरित्यादि बौधायनेन व्याख्यातम् । पुनर्निष्कृतो रथो दक्षिणेति पुनःसंस्कृत एषां भवति पुनरुत्स्यूतं वासः पुनःसंस्कृतमेव तत् । पुनरुत्सृष्टोऽनड्वानित्यतशीर्ण एवैष उक्तो भवति । अत्राऽऽहानुग्रहमापस्तम्बः-यदीतराणि न विद्यरत्नप्यनड्वाहमेव प्रदद्यादनडुहि ह वा एते कामा अतश्च भूयास इति पैङ्गायनिब्राह्मणमितीति ॥ इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयो. गवैजयन्त्यां पष्ठे याजमानपने पञ्चमः पटलः ॥५॥

6.6 अथ षष्ठप्रश्ने षष्ठः पटलः ।

अग्न्याधेयः समाप्तः । अग्निहोत्रस्य याजमान व्याख्यास्यामः स्वयमिध्ममाहरन् ।

अन्येनाऽऽहतमपि विहारं प्रत्यानयति स्वयमेव ।

विश्वदानीमाभरन्तोऽनातुरेण मनसा । अग्ने मा ते प्रतिवेशा रिषामेति विहारमभ्येति ।

स्पष्टम् ।

यदग्ने यानि कानि चेति प्रतिमन्त्रमाहवनीये वर्षिष्ठमिध्ममादधाति ।

आहवनीये वर्षिष्ठमन्येषु ततोऽल्पीयांसमल्पीयांसमिध्यमादधाति प्रत्यृचमेकैकस्मिन् ।

उद्धरेत्युद्ध्रियमाणमभिमन्त्रयते ।

स्वयंहोमेऽनुमन्त्रणमन्य प्रति प्रेषः प्रेषित उद्धरतीत्याध्वर्यव उक्तत्वात् । अत्रोद्धर- १ च. एष। ३. क. ख. ग. अ. स. अ. द. ट. धमा'। ३ क. ख, ग, ट, ठ, ण. ममुम।