पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Q १५० पटलः । महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

अहतं वासो वस्ते ।

द्वादशरात्रमहतमप्रच्छिन्नाप्रमरजकधौतमहतम् ।

काममन्यो जुहुयात् ।

स्वयमित्यस्य विकल्पः।

व्रतचारी त्वेव स्यात् ।

न मांसमश्नीयान्न स्त्रियमुपेयादित्यर्थः ।

स्वयं त्रयोदशीं जुहोति ।

स्वयमेवेत्यर्थः । त्रयोदर्शी रात्रि पयतेति यावत् ।

यां प्रथमामग्निहोत्राय दुहन्ति साऽग्निहोत्रस्य दक्षिणा।

प्रयोदश्यामग्निहोत्राय यां गां दुहन्ति तां गां दद्यात् । पूर्व यद्यन्यो जुहुयात्तस्मै । अंथवाऽऽरम्भेऽग्निहोत्रस्य वाऽध्वर्युस्तस्मै । माष्ये तु आधानादूर्ध्व द्वादशाहमाश्वपदि. कधारणमिति बौधायनाश्वलानयोरिष्टम् । द्वादशाहमाश्वपदिकमान धारयेदिति श्रुतेः । केचित्पवमानेष्टेः परं द्वादशाहमिति व्याचक्षते तदन्तत्त्वादग्निसिद्धेः । शाट्यायनके द्वादशाहधारणं स्वयंहोमाज्यहोमाश्च श्रुता इति सत्यापाढेनाऽऽचार्येण होमः प्रधानमे. वोपदिष्टम् । मतोऽग्निहोत्रोपकमात्परमिति । मध्येऽन्वारम्भणीयाप्राप्तौ तेष्वेवाग्निषु कार्या पौर्णमासी च । केचित्तु यत्र द्वादशाहावकाशस्तत्र धारणमेव । यत्रापोऽव- काशो नक्षत्राधानादौ तत्राऽऽरम्भणीयायां न धारणम् । पौर्णमास्याधानेऽवकाशामा. वान्न धारणमिति वर्णयन्ति । तदयुक्तम् । संकोचे कारणाभावात् । स्यादेतत् । सेप्ट्य . पवृज्येति वचनं संकोचकमिति । न तस्य सांवत्सरादिकल्पव्यावृत्तिपरत्वात् । सोमा- धानेनानसा इति भारद्वाजः । अस्माकमजनधारणस्य होमप्रधानत्वादुदवसानीयायां तदूर्व द्वादशाहधारणम् । आश्वपदिक एव होमा इतरेषामजम्लत्वादजस्र इति वक्तव्ये बहुवचननिशस्य प्रयोजनं पक्षहोमसमारोपणनिषेधो होमप्रधानतादेव । द्वितीयाधाने नाजस्रादिधर्माः। प्रोषिते यजमाने सर्वप्रायश्चितं कृत्वाऽजस्रष्वेवाऽऽज्यहोमः कर्तव्यः । द्वादशाहात्परं प्रणयनं च । केचित्प्रत्यागते त्रातभति चेच्छन्ति । तेषां तदहः प्राय- श्चित्तं त्रयोदश्यां प्रातर्दुत्वाऽग्नित्यागः । अहा० ते । वाम होति । अत्राप्यनसत्व. माज्यहोमश्च । यो प्र. क्षिणा । अध्वर्यवे देया प्रथममिति वचनात् । प्रथमहोमः पयमा । ततः परमाज्येन । अथवा हादशाहादूर्भ या सायहोमः स पयसा प्राथम्य. स्यापेक्षितत्वात् । मिथुदाति । अग्निहोत्रदर्शपूर्णमासयोर्यथाकालपारम्भे पवमानेष्टि- । क. ग. च. ट. द. मामि । २ च. 'नेषु ना। ३ ख. छ, 'भृतं ।