। १३२ सत्याषाढविरचितं श्रौतसूत्रं- [६षष्ठप्र-
या अन्तर्नाव्या आपस्तासां नाश्नीयात् ।
नावि नौकायामन्तर्भवाः स्थापिता वा पतिता वा छिद्रः प्रविष्टा वा तासां प्राशनं न कुर्यात् । पात्रान्तरव्यवधानस्थितानां न दोषः । आपस्तम्बोऽन्त व्यपा नाभीया- दित्याह । नावि स्थित्वेति चार्थः संभवति । अतो नाव्यानामपां नाश्नीयावन्तश्चापा नाभीयादर्थान्नाव्यन्तरपि किमप्युदकं न प्राश्नीयादित्यर्थः ।
रजतꣳ हिरण्यं बर्हिषि न दद्यात् ।
यत्र हिरण्यं देयत्वेनोक्तं गवादिप्रत्याम्नायत्वेन वा प्राप्तं तत्र रजतं न देयं किंतु सुवयेत्यर्थः । बर्हिषि यज्ञे श्रौते कर्मणीति यावत् ।
क्लिन्नं दारु नाभ्यादध्यादभ्यादध्याद्वा ।
अग्नाविति शेषः । किन्नमुदकेन । अभ्याध्याच तदन्यस्यालाभ इति व्याख्येयम- न्यथा सूत्रद्वयमनर्थकमेव स्यात् ।
स्वकृत इरिणे प्रदरे वा नावस्येत् ।
स्वभावोखरे देशे नावस्येदवसानमवस्थानं न कुर्यात् । प्रदरो भूमिगतस्तत्रापि ।
हिंकृत्य वाग्यतः स्त्रियं संभवेत् ।
हिमिति कृत्वा पश्चास्त्रियं गच्छेत् ।
व्याहरेद्वा।
न न्याहरेद्वेत्यर्थः।
नैतस्मिन्संवत्सरे पशुनाऽनिष्ट्वाऽनादिष्टो माꣳसं भक्षयेत् ।
रोगतः प्राप्ते मांसभक्षणे निरूढेनाङ्गपशुना वाऽनिष्ट्वा नैतस्मिनसंवत्सरे मांस भक्ष. येत् । आदिष्टो भक्षयेदपि।
यदि भक्षयेन्मनसाऽग्निभ्यः प्रहिणोमि भक्षं मम वाचा तं सह भक्षयन्तु । अप्रमाद्यन्नप्रमत्तश्चरामि शिवेन मनसा सह भक्षयतेत्युक्त्वाऽऽदिष्टो भक्षयति ।
ब्राझणैरादिष्टो भक्षयेदनिष्ट्वाऽपि पशुना ।
द्वादशरात्रमजस्रेष्वग्निष्वाज्येन स्वयमग्निहोत्रं जुहोति।
सत्रिशब्दोऽहोरात्रे प्रयुज्यते । अत्राऽऽरम्भविधिस्त्वाध्वयंव एवोक्तस्तथा कृत्वाऽऽ. रमप्रभूति - द्वादशरात्रं सायंप्रातश्चतुर्विशतिहोमानाज्येन स्वयमग्रिहोत्रं जुहोति । अनसता तु विधेया द्वादश दिनानि । व्रतमाह- i १५.च