पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५०पटलः ] महादेवकृतपैजयन्तीव्याख्यासमेतम् । ५२७

पशुमान्भूयासमिन्द्रस्य त्रातुरहं देवयज्यया त्रातो भूयासमिति प्रत्यक्षाम्नाता अनुमन्त्रणाः ॥ १४ ॥

इति हिरण्यकेशिसूत्रे षष्ठे याजमानप्रश्ने चतुर्थः पटलः ॥४॥इति हिरण्यकेशिसूत्रे षष्ठे याजमानप्रश्ने चतुर्थः पटलः ॥४॥

एतेषु हविःषु प्रकृतितोऽतिदेशेन प्राप्ता अनुमन्त्रणमन्त्रास्तषामनारम्य प्रत्यक्षवचनैः प्राप्तैर्बाधः । एते मन्त्रा लिङ्गेन यत्र यत्र यस्य प्रतिपाद्या देवता तत्र हविषि पुरोडाशे चरावामिक्षायां वा प्राप्नुवन्ति । नतु विकारेवन्यदेवताकेषु तेषु दर्शपूर्णमासाम्यामेवा- तिदेशात् । निरूपितमेतत् । इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवैज- यन्त्यां षष्ठे याजमानप्रश्ने चतुर्थः पटलः॥४॥

6.5 अथ षष्ठप्रश्ने पञ्चमः पटलः ।

अग्न्याधेयस्य याजमानं व्याख्यास्यामः ।

स्पष्टम् ।

पुरस्ताद्ब्राह्मौदनिकात्केशश्मश्रूणि वापयते नखानि निकृन्तते दतो धावते स्नात्यहतं वासः परिधत्ते ।

प्रथमब्रह्मौदनात्पूर्व स्पष्टमन्यत् ।

ब्रह्मौदनं प्राशितवद्भ्यो वरं ददाति ।

वरोऽनाढ्यस्य गुञ्जाद्वयं सुवर्णमृत्विग्भ्यः ।

आहितासु समित्सु मिथुनावसिक्तरेतसौ ददाति ।

अभ्यज्याऽऽहितासु तेभ्य एव स्त्रीपुंसौ पूर्वमसिक्तमगतं रेतो ययोस्ताहशो गावौ ददाति ।

न प्रयाति न प्रवसति।

सगृहो न प्रयाति विना गृहेण प्रवासस्तमपि न करोति ।

नास्याग्निं गृहाद्धरन्ति ।

अस्य यजमानस्य गृहादन्ये नाग्निं नयन्ति ।

अन्यतश्च नाऽऽहरन्ति ।

तदीया अन्यतोऽपि नाऽऽनयन्ति । लौकिकाग्निप्रतिषेधोऽन्यस्य तु हरणं न प्राप्तमेव ।

शिल्पैरेताꣳ रात्रिं जागर्ति ।

एतां रात्रिं यस्यामोदिते सूर्य आहवनीयमावास्यन्भवति । शिल्पैर्वीणावेणुमृदङ्गा- दिमिनिद्रामतिवाहयति ।