पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- तत्र ५२६ सत्पाषाढविरचितं श्रौतसूर्य- [६ षष्ठपने- प्स्यामौत्युक्तमेव । युष्मदर्थ प्रत्यादेशो दक्षिणत एतेति ब्राह्मणा अयं व ओदन इति चाध्वयुरेव भूपते भुवनपत इति ब्रह्मवरणमध्वर्युणा समन्त्र कार्य न जप इत्यर्थः । ओं निपेत्यपि । आदेशनमादन्यान्मन्त्रानित्यर्थः । स्पष्टीकृतं भाष्यकृता-अध्वर्युणा कर्तव्यानि । तानि वक्ष्यामः । ब्रह्मवरणम् । अमे हविः । इदं ब्रह्मण इति व्यादेशनम् । दक्षिणत एत ब्राह्मणा अयं व भोदन इति दानमन्त्रः । ब्राह्मणाश्स्तर्पयितवा इति श्रेषश्च । आत्मानं प्रत्यपि परार्थत्वात् । अथामन्त्रकाण्यध्वर्युकर्तव्यानि । प्रस्तरधारणम् । इडारम्भः । इडापाशनम् । प्रतिदिश व्यूहनं च । प्रणीतासु मार्जनं समिन्धनं च । अथ प्रवसता यजमानेन सर्वे मन्त्रा अपितव्याः प्रयोगकमेण । अध्वर्युकृतानि याजमानानि वर्जयित्वा । यथा ब्रह्मवरणम् । ओ निपेत्यादि । अध्वर्युवानि । यजमान वाचं यच्छ । यजमान हविनिर्वस्यामि । वर्षतु ते पर्जन्य इत्येतानि । एतयोरपि यजमान स्मृत्वा जप इत्येव न्याय्यम् । अन्या- ळ्यादेशनादित्यभिधानात्प्रतिदिशं व्यूहनमध्वर्युः । जपो यानमान बति ज्यादेशन समन्त्रमेवेदं ब्रह्मण इत्यादिकमध्वयोः । अन्यथा सूत्रविरोधः स्यात् ।

एवं विहितमिष्टिपशुबन्धानां याजमानम् ।

एवं विकृतेष्टिषु निरूढादिपशुबन्धेषु चेदमेव वैशेषिकं तत्र तत्रैवोक्तम् ।

यथाविकारमनुमन्त्रणाः ।

अग्नेरहं देवयज्ययेति यद्यपि देवतामात्रं श्रूयते तथाऽपि तस्य हुतस्यानुमन्त्रणनित्यु- तमेव । हविष एव विकारेणानुमन्त्रणमन्त्रा ज्ञेया नतु द्विदेवतस्य द्विदेवत एकदेवतस्यै- कदेवत्य इति, इन्द्रस्य चेन्द्रियावीति किंतु हविःसामान्यात् । अनुमन्त्रणमन्त्रो यो यस्य हविषो विकारस्तस्य तस्य तेनाविकृतेनोहितेन वा। अपवादमाह-

इन्द्रस्य वैमृधस्याहं देवयज्ययाऽसपत्नो भूयासꣳ सरस्वत्या अहं देवयज्यया वाचमन्नाद्यं पुषेयं पूष्णोऽहं देवयज्यया पुष्टिमान्पशुमान्भूयासमदित्या अहं देवयज्यया प्रजनिषीय प्रजया च पशुभिश्च द्यावापृथिव्योरहं देवयज्ययोभयोर्लोकयोर्ऋध्यासं भूमानं प्रतिष्ठां गमेयमर्यम्णोऽहं देवयज्यया स्वर्गं लोकं पुषेयं विश्वेषां देवानामहं देवयज्यया प्राणैः सायुज्यं गमेयमिन्द्रस्येन्द्रियावतोऽहं देवयज्ययेन्द्रियावी

१च.कृतीटि।