पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५०पटल] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ५२५ f स्पष्टम् । । स्पष्टम् ।

वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागामप्सु श्रद्धेत्यप उपस्पृश्य यथेतं प्रतिनिष्क्रामति ।

स्पष्टम् ।

ब्राह्मणाꣳस्तर्पयितवा इति संप्रेष्यति ।

बहुवचनादधिकांस्तर्पयति भक्ष्यभोज्यादिपरिवेषणेन । अष्टौ दश वेति वैखानसः । तथा पशौ शतमिति । तर्पयतेति प्रेषोऽध्वर्यु प्रत्यन्यं पाकसंस्कर्तारं वा प्रति । आत्मानं प्रत्येवेति राद्धान्तः ।

एवं विहितं प्रवसतोऽपि याजमानम् ।

प्रवार तस्यापि याजमानं भवत्येव ।

यस्यामस्य दिश्यग्नयो भवन्ति तां दिशमभिमुखो मन्त्राञ्जपति ।

याजमानमत्रान् । स्पष्टम् ।

अध्वर्युः कर्माणि करोति ।

यद्यपि न यजमानस्य प्रतिनिधिस्तथाऽपि परार्थे ह्यस्त्येव प्रतिनिधिरतो यान्यन्या. र्थानि तानि समन्त्राण्येव कुर्यादध्वर्युः । स्वामित्वप्रयुक्तसंस्कारेषु न प्रतिनिधिरित्येवमु. पपादितम् । कर्तृत्वे त्वस्त्येव प्रतिनिधिरिति भावः ।

अन्यान्यभिमर्शनात् ।

अभिमर्शनं वेदेहविषां च तद्विनाऽन्यानि, दर्शितमभिमर्शनं जपाङ्गमिति । यद्ययं करणमन्त्रः स्यात्तदाऽध्वर्योरेव समन्त्रं कर्म स्यात् । न मन्त्री जपपूर्वभाव्यङ्गम् । अत एवाभिमृश्य जपतीत्येतद्वलेन व्याख्यातम् । जपस्य वेदिसंस्कारत्वात्तस्मादमिमर्शन- स्याङ्गत्वं संस्कारकं जपं प्रत्येव संस्कारस्य यजमानार्थत्वान्नाभिमर्शनं परार्थ किं तु नपस्य पूर्वभाव्यङ्गं तदर्थं सदपि यजमानसंस्कार एव । तस्याङ्गभूतस्य लोपेऽपि प्रधानार्थान्मन्त्राञ्जपेदेवेत्याह-

यजमानो मन्त्राञ्जपत्यन्यान्व्यादेशनात् ।

व्यादेशनं चतुर्धाकरणानामिदं ब्रह्मण इत्यादि । तदभिमृश्यैवेदमित्यादिकमित्युक्त- मेव । तत्राभिमर्शनसद्भावेऽपि तस्य व्यादेशनाङ्गता व्यादेशनं च परार्थमतोऽभिमर्शन- मपि कृत्वाऽध्वर्युरेवेदमित्यादिशति करणमन्त्रत्वाभावेऽपि करणमन्नवदेव द्रव्यसंस्कार- मन्त्राणामपि परार्थत्वादध्वर्युप्रतिनिधित्वमस्त्येव । तेन तान्न यजमानो जपतीत्यर्थः । अध्न पिन्वस्वेत्यादिनपोऽपि व्यादेशनाङ्गं ब्राह्मणानामिद हविरितिलिङ्गात् । ततस्तु व्यादेशनशब्देन तदङ्गमन्त्रजपो लक्ष्यते । सोऽप्यध्वर्युणैव कार्य इत्येवं नाऽऽशङ्कनी. यं जपस्य साक्षायजमानसंस्कारत्वात्तेनैव कार्यः । ओं निर्वपेत्यस्य स्थानेऽग्ने हविनि. १ क. ख. ग. च. ट, ठ, ण, यस्यां दिश्यस्याम । on a