पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० पटले. ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । मष्टाशीत्युत्तरैकशताङ्गुलां पश्चाद्भागे दक्षिणोत्तरमानेन चतुरधिकं शतं प्राग्मागे . दक्षिणोत्तरमानेन षडधिकाशीतिरेवं प्रमाणां निरूढे वेदि कुर्यात् ।

अपि वा षडरत्निं प्राचीं चतुररत्निं पश्चात्तिरश्चीं त्र्यरत्निं पुरस्तात्तिरश्चीमसंनता भवति ।

वेदिशब्दः संस्कारानिमित्त इति प्रकृते वेदिशब्दाभिहिता ससंस्कारा प्राप्ता मध्ये सैनामोऽपि प्राप्तः स उपदेशेन निवर्त्यते न संनताऽसंनतेत्युभयोरपि । गतार्थमन्यत् ।

यत्प्रागुत्तरस्मात्परिग्राहात्तत्कृत्वा पूर्वार्धे वेदेर्यूपावटायावकाशमवशिष्य शम्ययोत्तरवेदिं विमिमीते ।

यदित्यनुवादश्चोदकप्राप्तस्योत्तरवैदिकालविधानार्थः । पूर्वार्धः पूर्वो मागस्तस्य प्राग्रेखामध्य एव यूपावटो यूपोच्छ्यणे खातं तदर्थमवकाशं स्थापयित्वा तस्य पश्चाच्छम्या मानेनोत्तरदिनामिकां वेदि विस्तारेण मितां करोति । संचरार्थमव- शिष्येत्यपि ज्ञेयं सूत्रान्तरे दर्शनाच्च । विमानप्रकारमाह-

पुरस्तादुदीचीनकुम्बाꣳ शम्यां निधाय वित्तायनी मेऽसीति स्फ्येनोदीचीं लेखां लिखति ।

वेदिमानं शम्यामात्रमेव । तत्र चिकीपिते स्थले पुरस्ता दाग उदीचीनं कुम्बमस्या- स्तादृशीं निधाय स्पयस्यायेणोदगपा शम्यामानेन लिखेदन्तरत इत्यग्रे वक्ष्यति । शम्यानं कुम्ब व्याख्यातं दर्शपूर्णमासव्याख्याने ।

दक्षिणतःप्राचीनकुम्बां निधाय तिक्तायनी मेऽसीति दक्षिणतः प्राचीं पश्चादुदीचीनकुम्बां निधायावतान्मा नाथितमिति पश्चादुदीचीमुत्तरतः प्राचीनकुम्बां निधायावतान्मा व्यथितमित्युत्तरतः प्राचीमभ्यन्तरं परिलिखति ।

शम्यां स्फ्येन लेखां लिखतीति पदचतुष्टयमावर्तते । यल्लिखति तदभ्यन्तरमिति तु पूर्वेण सह चतुभिः संबध्यते । उत्तरतो गमनमप्रदक्षिणं गतार्थमन्यत् ।

उत्तरेणोत्तरं वेद्यꣳसं प्रक्रमे चात्वालस्तं परिलिखत्यनेनैव कल्पेन यदन्यन्मन्त्रेभ्यः ।

यं परिलिखति स चावाल इति भाविनी संस्कारनिमित्ता संज्ञा । तस्य स्थानमुत्त- १५. ह. प. स.अ. . ण, खत्यतन । ५१