४०२ सत्यापाढविरचितं श्रौतसूत्रं- [४ चतुर्थप्रभे- रेणोत्तरमागे वेदेर्महावेदेरंस ईशान्यकोणतस्योत्तरतः प्रक्रमो व्याख्यातस्तस्मिन्नतीते चावालस्य दक्षिणरेखामध्यो यथा परितो लिखति प्रागारम्य प्रदक्षिणशम्यानिधान- स्फ्यलेखाकरणादिना कल्पेन विधिना मन्त्रविधि विनाऽन्येन ।
देवस्य त्वेत्यभ्रिमादाय विदेरग्निर्नभो नामेति खनति ।
आदद इत्यन्तः । प्रकृतं चात्वालमेव सकृन्मन्त्रेण ।
जानुदघ्नं त्रिवितस्तं वा खात्वा ।
शम्यामानेन विस्तृतमघस्ताज्जानुदघ्नं जानुपरिमाणं वितस्तित्रयपरिमाणं वा खात्वेति वाप्रत्ययेन तावत्परिमाणमादौ खात्वा पश्चादुक्तं कार्यमाह ।
अग्ने अङ्गिर इत्यभ्रिं प्रहरति ।
खातायां मृदि प्रवेशयति ।
योऽस्यां पृथिव्यामिति पाꣳसूनपादत्ते ।
असीत्यन्तः । पासून्खातमृदं वा कात्यायनीय हस्तेन चेत्युक्तं सामर्थ्यात्स्फ्येन हस्तेन वाऽङ्गी करोति ।
आयुषा नाम्नेहीति हरति ।
पांनुत्तरवेदिप्रदेशं प्रति नयति । मन्त्रस्तावानेव ।
यत्तेऽनाधृष्टमित्युत्तरवेद्यां निवपति ।
स्वाऽऽध इत्यन्तः । विमिते देश उत्तरवेद्याश्चिकीर्षिताया निदधाति पासून् ।
एवं द्वितीयं हरत्येवं तृतीयम् ।। ३ ।।
एवं द्वितीयं तृतीयं च हरतीति लघुवाच्ये द्वितीये मन्त्रे यो द्वितीयस्यां पृथिव्या- मित्याद्यनुषको यथा स्यात्तृतीये तु सानुषङ्गः पाठस्तत्र विधिमात्रमतिदिश्यत इति । अत्र हरतीत्येतावदतिदिष्टं तत्त्वग्ने अङ्गिर इति विहरतीति श्रुतेः प्रहरणादि साङ्गं हरणं निर्दिष्टमिति प्रहरणाद्यपि ज्ञेयम् ।
यो द्वितीयस्यामिति द्वितीयमपादत्ते यस्तृतीयस्यामिति तृतीयं तूष्णीं चतुर्थम् ।
अग्ने अङ्गिर इति प्रहृत्य यो द्वितीयस्यामित्यादि हरणान्तं निवपनार्थत्वादर्थसिद्धं, निवपनं समन्त्रमेव, तथा तृतीय, चतुर्थं तु प्रहरणादि हरणान्त तूष्णीं तूष्णी निवप- नम् । कुतः । श्रुतिर्हि त्रिहरतीत्येतावदेव विधत्ते । सूत्रे तु निवयतीत्यन्तं व्याख्यात तत्र मन्त्रलिङ्गान्मध्ये मन्त्र विच्छिद्यार्थप्राप्ते नाना क्रियासु विनियोंगो व्याख्यातस्त्वत्र
- सूत्रपुस्तकेषु एतत्सूत्रस्थाने 'एवं द्वितीय तृतीयं च हरति' इति पाठो विद्यते ।
१ च, छ, 'म्यामानेन ।