[६ षष्ठप्रश्भे-- a ५२२ सत्याषाढविरचितं श्रौतसूत्रं-
सं यज्ञपतिराशिषेति ॥ ११॥ यजमानभागं प्राश्नाति शृतस्य दध्नश्च ब्राह्मणोऽश्नाति न वैश्यराजन्याविदꣳ हविः प्रजननं मे अस्त्विति शृतस्य दधिक्राव्णो अकारिषमिति दध्नः ।
स्पष्टम् ।
अन्तर्वेदि प्रणीतासु मार्जयते ।
उत्तरार्थमिदम् ।
अध्वर्युश्चास्मै संततां धारा स्रावयति सदसि सन्मे भूया इत्यानीयमानासु जपति ।
प्रणीतासु स्राव्यमाणास्वध्वर्युणा।
प्राच्यां दिशि देवा ऋत्विजो मार्जयन्तामिति प्रतिदिशं व्युत्सिञ्चति समुद्रं वः प्रहिणोम्यक्षिताः स्वां योनिमपिगच्छत । अच्छिद्रः प्रजया भूयासं मा परासेचिमत्पय इति शेषं निनयति।
प्रणीताशेषं वेद्याम् ।
यदप्सु ते सरस्वति गोष्वश्वेषु यन्मधु । तेन मे वाजिनीवति मुखमङ्ग्धि सरस्वतीति मुखं विमृष्टे।
हस्तेन ।
अत्र यजमानभागप्राशनमेके समामनन्ति ।
स्पष्टमन्यत् ।
अत एवोपोत्थाय विष्णोः क्रमोऽसीति चतुरो विष्णुक्रमान्क्रामति दक्षिणेन प्रक्रम्य सव्येनानुप्रक्रामति न सव्येन दक्षिणमतिक्रामति नाऽऽहवनीयमतिक्रामत्युत्तरमुत्तरं ज्यायाꣳसं तिष्ठꣳश्चतुर्थं जपति ।
अतो यजमानायवनादेवोत्थाय नान्यत्र स्थितः । दक्षिणपादेनाग्रे प्रक्रम्य सव्येन तदनूत्तरमुत्तरं प्रक्रमणं ज्यायो दीर्घ त्रीण्येव चतुर्थे प्रक्रमणं नास्ति तृतीये प्रक्रमणे तिष्ठश्चतुर्थं विष्णोः क्रमोऽसि शत्रूयत इति जपति ।
उद्यन्नद्य मित्रमहः सपत्नान्मे अनीनशः। दिवैनान्विद्युता जहि निम्रोचन्नधरान्कृधि । उद्यन्नद्य