पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२१ . ४५०पटलः: महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

इडाऽस्माननुवस्तान्घृतेन यस्याः पदे पुनते देवयन्तः। वैश्वानरी शक्वरी वावृधानोपयज्ञमस्थित वैश्वदेवीत्याज्येडाम् ।

आभिमन्त्रयते।

या सरस्वती यशोभगीना तस्यै ते स्वाहेति फलीकरणहोमे हूयमाने मुखं विमृष्टे । या सरस्वती वेशभगीना तस्यै ते स्वाहेति हुते मुखं विमृष्टे ।

हस्तेनानुलोमं मार्टि । अग्नयेऽदव्यायवेऽशीततनव इदम् । विश्वेभ्यो देवेभ्य इहम् ।

वेदोऽसि वित्तिरसीति वेदꣳ होत्रा पत्न्यै प्रदीयमानम् ।

अभिमन्त्रयते होत्रा पत्न्यै प्रदीयमानम् । सनेयमित्यन्तः ।

वेदोऽसि वेदसे त्वा वेदो मे विन्देति वा ।

पूर्वस्य विकल्पार्थः।

घृतवन्तं कुलायिनमिति वेदमुपस्थेऽस्यमानम् ।

पल्या उपस्थे क्षिप्यमाणं वेदममिमन्त्रयते । वाजिनमित्यन्तः ।

वेदोऽसि वेदो म आहर तृप्तस्त्वं तृप्तोऽहं प्रजया पशुभिर्भूयासमिति वा ।

गतम् ।

त्वया वेदिं विविदुः पृथिवीं त्वया यज्ञो जायते विश्वदानिः । अच्छिद्रं यज्ञमन्वेषि विद्वान्त्वया होता संतनोत्यर्धमासानिति वेदꣳ स्तीर्यमाणम् ।

होत्रा गार्हपत्यात् ।

अग्नेऽदब्धायो इति समिष्टयजुः ।

अनुमन्त्र यते । स्वाहान्तो मन्त्रः सकृदेव । समिष्टयजुर्नानात्वेऽप्यन्ते । वातायेदम् । अत्र नानादेवता पदानि श्रूयन्ते तथाऽप्युक्तमार्यवे तज्ज्ञेयम् ।

दिवः खीलोऽवततः पृथिव्या अध्युत्थितः तेनासहस्रकाण्डेन द्विषन्तꣳ शोचयामसि द्विषन्मे बहु शोचत्वोषधे मो अहꣳ शुचमिति बर्हिरनुप्रहृतम् ।

अनुमन्यते । १ घ. अ. द. प्ररियमाणम् ।